________________
मुका]. समवायाङ्गमुक्तासरिका।
३०% " जीवादीनामिति, यथावस्थितस्वरूपप्रतिपादनाय जीवादीनां द्रव्यगुणक्षेत्रकालपर्यवाः स्थानेन स्थाप्यन्ते, तत्र द्रव्यं-द्रव्यार्थता यथा जीवास्तिकायोऽनन्तानि द्रव्याणि, गुणः स्वभावो यथोपयोगस्वभावो जीवः, क्षेत्रं यथा असंख्येयप्रदेशावगाहनोऽसौ, कालो यथा अनाद्यपर्यवसितः, पर्यवा:-कालकृता अवस्थाः, यथा नारकत्वादयो बालत्वादयो वेति, एवमजीवादीनामपि भाव्यम् । एवमेतेषां पदा
नामेकविधवक्तव्यता-एकविधत्वेनाभिधेयता, एवं द्विविधवक्तव्यता त्रिविधवक्तव्यतेत्येवं दशविध- । वक्तव्यतां यावद्व्यादयः स्थाप्यन्त इति ॥ ९ ॥
अथ चतुर्थाङ्गवक्तव्यतामाह
एकोत्तरादिवृद्ध्याऽऽगमस्य पर्यवपरिमाणज्ञापकः समवायः॥ ९१ ॥
एकोत्तरेति, समवायः सम्यकपरिच्छेदः, तद्धेतुश्च ग्रन्थोऽपि समवायः, आगमस्य-जगज्जीवहितस्य भगवतो द्वादशाङ्गलक्षणगणिपिटकस्य पर्यवपरिमाणं-अभिधेयादितद्धर्मसंख्यानं तच्च शतं याव-10 देकोत्तरपरिवृद्ध्या समनुगीयते ततः परमनेकोत्तरिकया परिवृद्ध्या, एवमेकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः पुनः पर्याप्तापर्याप्तादिभेदेन नानाविधा वर्णिताः तथा तद्धर्मा अपीति ॥ ९१ ॥ .
अथ पश्चमाङ्गवक्तव्यतामाचष्टे
भगवता द्रव्यगुणादिभिर्व्याकृतानां संशयितपृष्टानां श्रुतार्थानां व्याख्याकृड्याख्याप्रज्ञप्तिः॥ ९२॥
भगवतेति, अत्रापि स्वपरोभयसमया जीवा अजीवा जीवाजीवाश्च व्याख्यायन्ते, तथा नानाविधसुरनरेन्द्रराजर्षिभिर्नानाविधसंशयवद्भिः पृष्टानां भगवता महावीरेण विस्तरेण भाषितानां षट्त्रिंशत्सहस्राणां व्याकरणानामत्रोपनिबन्धनात् श्रुतविषया अर्थाः श्रुता आकर्णिता वा जिनसकाशे गणधरेण येऽर्थाः श्रुतार्थास्तेऽत्र नाना प्रकारा व्याख्यायन्ते । भगवता कथं व्याकृता इत्यत्रोक्तं दुगुणादिभिरिति, द्रव्यगुणक्षेत्रकालपर्यवप्रदेशपरिणामयथास्तिभावानुगमनिक्षेपनयप्रमाणोपक्रमैरित्यर्थः, तत्र द्रव्याणि 20 धर्मास्तिकायादीनि, गुणा:-ज्ञानवर्णादयः, क्षेत्रमाकाशम् , काल:-समयादिः, पर्यवाः-खपरभेदभिन्ना धर्माः, कालकृता अवस्था नवपुराणादयो वा, प्रदेशाः-निरंशावयवाः, परिणामा:-अवस्थातोऽवस्थान्तरगमनानि, यथास्तिभावः-येन प्रकारेण सत्ता, अनुगमः-संहितादिव्याख्यानप्रकारः, उद्देशनिर्देशनिर्गमादिद्वारकलापात्मको वा, निक्षेपः-नामस्थापनाद्रव्यभावैर्वस्तुनो न्यासः, नयप्रमाणं नया नैगमादयः सप्त, द्रव्यास्तिकपर्यायास्तिकभेदात् ज्ञानक्रियाभेदान्निश्चयव्यवहारभेदाद्वा द्वौ, त एव तावेव 25 वा प्रमाण-वस्तुतत्त्वपरिच्छेदनं नयप्रमाणम् , उपक्रमः-आनुपूर्व्यादिः ॥ ९२ ॥
अथ षष्ठाङ्गवक्तव्यतां निदर्शयति
ज्ञाताधर्मकथासु संयमप्रतिज्ञापालने दुर्बलानां घोरपरीषहपराजितानां विषये गायेन विराधितज्ञानादीनां परिभ्रमणं व्यावर्ण्यते ॥ ९३॥
ज्ञातेति, ज्ञातानि-उदाहरणानि, तत्प्रधाना धर्मकथाः, अथवा प्रथमश्रुतस्कन्धः ज्ञाताभिधा-50 यकत्वात् ज्ञातानि, द्वितीयस्तु धर्मकथाभिधायकत्वाद्धर्मकथाः, ततश्च ज्ञातानि च धर्मकथाश्च ज्ञाता
15