SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Recccccco ॐ अर्हम्। श्री आत्मकमललब्धिसूरीश्वरेभ्यो नमः । जैनाचार्यश्रीमद्विजयलब्धिसूरिसङ्कलिता सटीका सूत्रार्थमुक्तावलिः। वाचा निर्मलया सुधामधुरया यो मोक्षशिक्षामदात्, - यस्याभूत् पदपङ्कजं तरिनिभं संसारवारांनिधौ । ध्वस्ताशेषदुरन्तकर्मपटलं लोकैकपूज्यं प्रभुम् , श्रीनाभेयजिनं दयैकनिलयं भक्त्या सदा नौमि तम् ॥१॥ न्यायव्याकरणाहदागमलसद्वैदग्ध्यदीक्षागुरुम् , भूमीकल्पतरं समस्तजनतासङ्गीतकीर्ति यतिम् । ध्यात्वा श्रीकमलाख्यसूरिमनघं सश्चिन्त्य सूत्राम्बुधिम्, कुर्वे बालहिताय सङ्ग्रहमयीं सूत्रार्थमुक्तावलिम् ॥ २॥ - अथ न्यायप्रकाशसमलङ्कततत्त्वन्यायविभाकरादिग्रन्थेभ्यो विदितवपरसमयसाराणां सुनिर्मलचरणधर्मविभूषितानामनूढयोगानां भगवदहद्वचनस्यानुयोगकरणाभिलाषुकाणां विनेयानामनायासेन तत्र 15 प्रवृत्तिसम्पादनार्थ पूर्वमहर्षिभिरतिगम्भीरतयोपक्रमादिद्वारैर्विचारितत्वेऽपि तेषां अल्पप्रज्ञानामसुज्ञानत्वेन सौलभ्यतया तदुबोधयिषयोपक्रमादिद्वारवर्णनपुरस्सरं मूलकृताऽनुपमागमभक्तिजनितौत्सुक्येनानुयोगं कर्तुमारभमाणेन परमनिःश्रेयसनिदानं प्रत्यूहव्यूहविध्वंसकं ज्ञानमादावुपनिषध्यते मतिश्रुतावधिमनःपर्यवकेवलानि पञ्च ज्ञानानि ॥१॥ - . मतीति, मननं मतिः, मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति वा मतिः, 20 योग्यदेशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तावगमविशेषः । श्रवणं श्रुतमभिलापप्राप्तार्थग्रहणस्वरूप उपलब्धिविशेषा, श्रूयते तदिति भुवं प्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमा भगवन्मुखानिसष्टे
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy