________________
मुक्ता ]
स्थानमुक्तासरिंका ।
१६१
'चेति पुनरपि द्विधा, आद्याऽज्ञाननिमित्ताऽनायुक्तादानताऽनायुक्तप्रमार्जनताभेदद्वयवती, द्वितीया स्वशरीराद्यनपेक्षनिमित्ताः स्वशरीरान व काङ्क्षप्रत्ययिकीपरशरीरानवकाङ्क्षप्रत्य यिकी लक्षणभेदवती । पुनरपि प्रेमप्रत्ययिकीदोषप्रत्ययिकीभेदेन क्रिया द्विविधा, मायालोभविषया प्रथमा, द्वितीया तु क्रोधमानविषयेति ॥ ११ ॥
क्रियाणामेतासां प्रायो गर्ह्यत्वाद्गद्वैविध्यमाहमनोवाग्भ्यामल्पदीर्घकालाभ्यां वैता गर्ह्यः प्रत्याख्येयाश्च ॥ १२ ॥
मन इति, गर्दा हि द्विविधा स्वपरविषयभेदात्, सापि मिथ्यादृष्टेः, अनुपयुक्तस्य सम्यग्दृष्टेश्व द्रव्य, अप्रधानभूतत्वात्, सूपयुक्तस्य सम्यग्दृष्टेश्च भावगर्हा, इयञ्च गर्हाऽतीते कर्मणि भवति, भविष्य प्रत्याख्यानं प्रत्युत्पन्ने च संवरः, गर्हणीयभेदाच्चतुर्विधाऽपि बहुप्रकारापि वा करणविशेषापेक्षया द्विविधा मनः करणिका वचः करणिका चेति, तत्र प्रथमा मनसैव न वाचा, यथा 10 कायोत्सर्गस्थो दुर्मुखसुमुखाभिधानपुरुषद्वयनिन्दिताभिष्टुतस्तद्वचनोपलब्ध सामन्तपरिभूत स्वतनयराजवार्तो मनसा समारब्धपुत्रपरिभवकारिस।मन्त सङ्ग्रामो वैकल्पिकप्रहरणक्षये स्वशीर्षकग्रहणार्थव्यापारितहस्त संस्पृष्टलुचितमस्तकस्ततः समुपजातपश्चात्तापानलज्वालाकलापदन्दह्यमानसकलकर्मेन्धनो राजर्षिप्रसन्नचन्द्र इवैकः कोऽपि साध्वादिर्गर्हते तद्गर्ह्यम् । द्वितीया च वचसैव न मनसा भावतो दुश्चरितादियुक्तत्वाज्जनरञ्जनार्थं गर्हाप्रवृत्ताङ्गारमर्दकादिप्रायसाधुवदेकोऽन्यो गर्हत इति । प्रकारान्तरेण 15 गभेदमाहालपदीर्घेति यावदेकः कोऽपि गर्हणीयमल्पकालं गर्हते न बृहत्कालम्, अन्यथा वा विवक्षयाऽल्पत्वं भावनीयम्, आपेक्षिकत्वाद्दीर्घ ह्रस्वयोः, एवं दीर्घकालं यावदेको गर्हत इति । भविव्यत्कर्मापेक्षया प्रत्याख्यानमाचष्टे प्रत्याख्येयाचेति, विधिनिषेधविषया प्रतिज्ञा प्रत्याख्यानम्, तच्च द्रव्यतो मिध्यादृष्टेः सम्यग्दृष्टेर्वाऽनुपयुक्तस्य, कृतचातुर्मास मांसप्रत्याख्यानायाः पारणकदिने मांसदानप्रवृत्ताया राजदुहितुरिव । भावप्रत्याख्यानमुपयुक्तस्य सम्यग्दृष्टेरिति । तच देशसर्वमूलोत्तरगुण - 20 भेदादनेकविधमपि कारणभेदात् कालभेदाद्वा द्विविधम् ॥ १२ ॥
"
1
ननु संसारकान्तारव्यतित्रजनं विद्यया चरणेन च यौगपद्येन भवति, एकैकशो विद्याक्रिययोरैहिकेष्वर्थेष्वपि कारणत्वादर्शनात्, सम्यग्दर्शनस्य च ज्ञानभेदत्वेन विद्यायामन्तर्भावान्न सम्यग्दर्शन'ज्ञानचारित्राणां मोक्षमार्गत्वोक्तिर्विरुद्ध्यते, ते च विद्याचरणे कथमात्मा न लभते कथं वा भ दर्शयितुमादावलाभं दर्शयति
अविज्ञायारम्भपरिग्रहौ धर्मबोधिप्रव्रज्याब्रह्मवाससंयमज्ञानादीन्नावाप्नोति ॥ १३ ॥
अविज्ञायेति, कृष्यादिद्वारेण पृथिव्याद्युपमर्द्दनमारम्भः, धर्मसाधनव्यतिरेकेण धनधान्यादयः परिग्रहस्तौ ज्ञपरिज्ञयाऽपरिज्ञाय यथैतावारम्भपरिग्रहावनर्थाय अलं ममाऽऽभ्यामिति परिहारामुख्यद्वारेण प्रत्याख्यानपरिज्ञयाऽप्रत्याख्याय च भगवदुक्तं श्रुतधर्मं श्रोतुं न लभते तथा दर्शनं 30
सू० मु० २१
25