SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १९७ मुका 1 'सूत्रकृतलक्षणा | चारित्रधर्मा सूत्रार्थानभिज्ञत्वान्न धर्म सम्यक् परिछिनत्ति स एव तु पचागुरुकुलवासादभ्यस्तसर्वज्ञप्रणीतागमत्वान्निपुणो यथावस्थितान् जीवादिपदार्थाम् पश्यति, शिक्षको हि गुरुकुलवासितया जिनवचनाभिज्ञो भवति तत्कोविदश्च मूलोत्तरगुणान् जानाति, अतो दिक्षु विदिक्षु च त्रस्तस्थावरेषु सर्वदा यतमानस्सन् संयमानुष्ठायी भवेत्, तेषु प्राणिषूपकारिष्वपकारिषु वा मनसापि प्रद्वेषं कदापि स गच्छेत्, न वाऽपकारिषु मनसाऽप्यमङ्गलं चिन्तयेत् । योगत्रिककरणत्रिकेण द्रव्यक्षेत्रकालभाव - 5 रूपां प्राणातिपातविरतिं सम्यगरक्तद्विष्टतयाऽनुपालयेत् एवं शेषमहात्रतान्युत्तरगुणांश्च समनुपालयेत् ॥ ४८ ॥ " तस्यैव गुणान्तरमाह - शास्त्रवेत्ता विभज्यवादी भाषाविधिज्ञश्च ॥ ४९ ॥ " शास्त्रेति, सविनयं गुरुकुलवासी साधुराचार्याद्युपदिष्टं सम्यग्दर्शनादिमोक्षमार्ग हृदये सुव्य- 10 वस्थाप्य तत्र सुस्थितोऽप्रमादी हेयोपादेयं सम्यक् परिज्ञायोत्पन्नप्रतिभः सिद्धान्तस्य श्रोतॄणां यथावत् प्रतिपादको भवति, ग्रहणासेवनारूपया द्विविधयापि शिक्षया शिक्षितत्वात्, तथा स एव स्वपरशक्ति पदं प्रतिपाद्यमर्थं च सम्यक् परिज्ञाय धर्मं प्रतिपादयितुं क्षमः, बहुश्रुतत्वात् प्रतिभावत्त्वादर्थविशारदत्वात् स्वतो धर्मे सुस्थितत्वाच्च, एवंविधः कालत्रयवेत्ता जन्मान्तरसचितानां कर्मणामन्तकृद्भवति, अन्येषाञ्च कर्मापनयनसमर्थो भवति, कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽह किम्भू - 15 तार्थप्रतिपादनशक्त इति सम्यक् परीक्ष्य व्याकरणात् परेण पृष्टस्यार्थस्य सम्यगुत्तरप्रदानसामर्थ्याच्च, तथाऽहं समस्तशास्त्रवेत्ता समस्तसंशयापनेता न मत्तुल्यो हेतुयुक्तिभिरर्थप्रतिपादयितेत्येवमभिमानं न सेवेत नापि बहुश्रुतत्वेन तपस्वित्वेन वा स्वात्मानं प्रकाशयेत्, शास्त्रार्थं नापसिद्धान्तेन व्याख्यानयेत् लाभ पूजादि नेच्छेत् पूजासत्कारादिकं कचिदवाप्याप्यनुन्मादी व्याख्यानावसरे धर्मकथावसरे वाऽनाविलोsकषायी साधुर्वाग्दर्शित्वादर्थनिर्णयं प्रत्यशङ्कितभावोऽप्यौद्धत्यं परिहरन् विषममर्थ प्ररूपयन् 20 साशङ्कुमेव कथयेत्, परिस्फुटमप्यशङ्कितभावमप्यर्थं न तथा कथयेद्येन परः शङ्केत, अपितु विभज्यवादी पृथगर्थे निर्णयवादं व्यागृणीयात्, स्याद्वादं सर्वत्रास्खलितं लोकव्यवहाराविसंवादितया सर्वव्यापिनं स्वानुभवसिद्धं वदेत्, नित्यवादं द्रव्यार्थतया पर्यायार्थया त्वनित्यवादं वदेत्, स्वद्रव्यक्षेत्रकालभावैः सर्वेऽपि पदार्थाः सन्ति परद्रव्यादिभिस्तु न सन्तीत्येवं विभज्यवादं वदेत्, तदपि वाद सत्यासत्यामृषाभ्यां भावाभ्यां भाषेत, तेन कथितार्थ कश्चिन्मेधावितया तथैव सम्यगवगच्छति, 25 अपरस्तु मन्दमेधावितयाऽन्यथैव यद्यभिजानीयात् तं यथाऽसाववबुद्ध्येत तथा हेतूदाहरणसंयुक्तिप्रकटनमुखेन कर्कशादिवचनमब्रुवन् सम्यग्बोधयेत्, स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्तानुप्रसक्त्या न दीर्घकालिकं कुर्यात्, यत्त्वतिविषमत्वादल्पाक्षरैर्न सम्यगवबुध्यते तत् पर्यायशब्दोच्चारणतो भावार्थकथनतश्च श्रोतारमपेक्ष्य सद्धेतुयुक्त्यादिभिरस्खलितामिलिताही नाक्षरार्थवादी भाषेत न त्वल्पैरेवाक्षरैरुक्त्वा कृतार्थो भवेत् । एवं परस्पराविरुद्धं निरवद्यं वचनमभियुञ्जीत, 30 उत्सर्गविषये सत्युत्सर्गमपवादविषये ऽपनाएं स्वपर समययोश्च यथास्वं वचनमभिवदेत् तीर्थकरगणधरायुक्तं महणशिक्षवा सम्यग् गृहीयात्, आसेबनाशिक्षमा त्वनवरतमुयुक्तविहारितयाऽऽसेवेव,
SR No.022284
Book TitleSutrarth Muktavali
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherLabdhisuri Jain Granthmala
Publication Year1946
Total Pages340
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy