________________
३३०
श्रीअध्यात्मकल्पद्रुमे योगोऽस्येति सयुग् तस्य भावः सायुज्यं" शिवसौख्याऽऽनन्त्यसायुज्यमिति ||१५.१०।।
इतिश्रीतपागच्छे० महोपाध्यायश्रीधनविजयगणिविरचितायामध्यात्मकल्पद्रुमटीकायां शुभप्रवृत्तिशिक्षोपदेशनाम्नी पञ्चदशी पदपद्धतिः ।।१५।।
रत्न.-अथ पञ्चदशाधिकारस्योपसंहारवाक्यमाह -
इति यतिवरशिक्षाम्..इति. व्याख्या-इति-अमुना प्रकारेण यो व्रतस्थोयतिर्यतिवराणां साधुमुख्यानां शिक्षामवधार्य-चित्ते धृत्वा, चरणकरणसप्ततिगाथोक्तान् चरणकरणयोगान् श्रयेत, किंलक्षणः ? - एकस्मिन् ध्यातव्ये पदार्थे चित्तं यस्य स एकचित्तः-अव्यग्रमना इत्यर्थः, स यतिः शीघ्रं भवमहाब्धिं-संसारसमुद्रं तीर्वा, शिवस्य-मोक्षस्य सौख्यानामानन्त्यम्-अनन्तत्वं तेन सह युग-योगोऽस्यास्तीति सयुग् योगो, सयुजो भावः सायुज्यम्, आप्य-प्राप्य विलसति-विलासं करोति, अनन्तसुखमनुभवतीत्यर्थः, भवमहाब्धिं किंलक्षणं ? - क्लेशानां कष्टानां राशिरिव क्लेशराशिः, क्लेशानां राशिर्यत्रेति वा तम्, अत्र यतिवरेत्युक्तेऽप्युपलक्षणात्'श्राद्धवर'इत्यपि ग्राह्यम्, कियद्भिर्गुणैर्यतिसमानत्वाद् भावयतित्वाद् वेति ।।१५.१०।।
[४६६] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु
लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः ।
अध्यात्मकल्पतरुशास्त्रनिबंधमेनं, चक्रेऽगमद् विवृतपञ्चदशोऽधिकारः ।।१५।।
इति पञ्चदशोऽधिकारः ।।
१. स इति पदं, प्रतौ मूलत्वेनापि गृहीतम् । २. अध्यात्मकल्पफलदस्य चकार वृत्तिं, चक्रेऽगमद् विवृतपञ्चदशोऽधिकारः ।।१५।। - मु० ।