________________
રૂ૦૮
श्रीअध्यात्मकल्पद्रुमे ऽमनोज्ञशब्दान् त्यजन्ति, अत्र कठिनभाषानिवारणार्थे संयमशब्दप्रयोगो ज्ञेयः, एवमग्रेतनेष्वपि सूत्रेषु ज्ञेयं, चेति विशेषे, एतेष्विष्टानिष्टेषु कोकिल-काकप्रभृतीनां शब्देषु राग-द्वेषौ त्यजन् मुनिः स्यादिति ।।१४.१२ ।। ..
[४३४] घ्राणसंयममात्रेण, -- - -
गन्धान् कान् के त्यजन्ति न ? | इष्टानिष्टेषु चैतेषु,
रागद्वेषौ त्यजन् मुनिः ||१४.१३।। धनवि.-अथ घ्राणेन्द्रियसंवरमुपदिशन्नाह - 'घ्राण' इति, घ्राणसंयममात्रेण-नासिकेन्द्रियसंवरमात्रेण गंधानिष्टाननिष्टान् वा के-एकेन्द्रिय-द्वीन्द्रिया दोषग्रस्ताः पञ्चेन्द्रियादयश्च न त्यजन्ति ?, अपि तु सर्वेऽपि परिहरन्तीत्यर्थः । अत्रोत्तरार्द्ध पूर्ववत्, 'शब्द'स्थाने 'गन्ध' इति विशेषः । ननु क्रमप्राप्तं चक्षुरिन्द्रियसंवरोपदेशमुपेक्ष्य घ्राणेन्द्रियसंवरोपदेशः कथं प्रतिपादित इति चेत् ? - न, 'विचित्रा सूत्राणां कृतिराचार्यस्ये'इति न्यायात् 'स्वतन्त्रेच्छायाः पर्यनुयोगानर्हत्वात्'इति न्यायाद् वा 'सामञ्जस्यात्, अन्यथा वा सुधियाऽत्र शङ्का निराकरणीयेति ।।१४.१३।।
रत्न.-घ्राण. इति. व्याख्या-अत्रोपहतभावघ्राणेन्द्रियेद्वीन्द्रिया उपलक्षणादेकेन्द्रिया- अपि ग्राह्याः, तेऽपि द्रव्य-भावघ्राणेन्द्रियविकला इति, इष्टाऽनिष्टान् गन्धान् त्यजन्तीति, कान् ? - शुभाऽशुभान्-मृगमद-लशुनादिसम्बन्धिनो न त्यजन्ति ?, अपि तु पूर्वोक्ताः सर्वेऽपि त्यजन्ति, उत्तरार्धं पूर्ववत् ।।१४.१३।।
[४३५] चक्षुःसंयममात्रेण,
रूपालोकांस्त्यजन्ति न । इष्टा-ऽनिष्टेषु चैतेषु,
रागद्वेषौ त्यजन् मुनिः ||१४.१४ ।। १. 'औचित्यात्' इति टिप्पणी. मु० ।