________________
२९५
मिथ्यात्वादिसंवरोपदेशद्वारम् सुध्यानयन्त्रितं-शुभकार्यकरणमनोरथेन नियन्त्रितं-सङ्कलितं सत्, "सद्ध्यान"पाठे तूत्तमं ध्यानं पूर्ववदेव, दुर्विकल्पेभ्यः-अशुभकार्यकरणमनोरथेभ्यो, विरतं-निवृत्तं भवति, अत्र सार्थकता निरर्थकता च शुभकार्यकरणमनोरथे समुत्पन्ने कार्यसिद्धौ सफलता, तत्कार्यासिद्धौ च निष्फलता, उभयत्रापि शुभकर्मानुबन्धिता, यदुक्तम्[४२४] "भवन्ति भूरिभिर्भाग्यैर्धर्मकर्ममनोरथाः ।
फलन्ति यत्पुनस्ते तु, तत्सुवर्णस्य सौरभम् ।।[ ]||" इति । तान्-अनन्तरोक्ताऽन्वयोपदर्शितान् पारगान्-संसारपारगामिनो यतीन्-मुनीन् स्तुवेस्तुतिगोचरान् कुर्वे इत्यर्थः ।।१४.५।। ___ रत्न.-सार्थम्. इति. व्याख्या-यन्मनः, सहार्थेन वर्त्तते तत् सार्थं, तथा निर्गतोऽर्थः-प्रयोजनं यस्मात् तन्निरर्थक, प्रवृत्तिमदित्यध्याहार्यम्, अन्यथाऽर्थसङ्गतिर्न स्यात, मनसः प्रवृत्तिद्धिधा-सार्थका निरर्थका च, किञ्चिदात्मनः स्वजनस्य वा हेतोर्मनसः प्रवृत्तिः सार्थका, तथा वर्त्मनि गच्छन् कश्चिच्चिन्तयेद्-'ईदृक् क्षेत्रं हलीकृत्योप्तं भवति, तदा भूयसी शस्यनिष्पत्तिर्जायते, हा धिक् कश्चिन्नायको नास्ति, यत ईदृशी भूः शून्या पतिताऽस्ति'इत्यादिविषया प्रवृत्तिनिरर्थका, सर्वथा प्रयोजनाभावादिति, तन्मनः सुध्यानेन-धर्म-शुक्ललक्षणेन यन्त्रितं-रुदधं सत, अत एव येषां दुर्विकल्पेभ्यो विरतं वर्त्तते तान् यतीन् प्रति स्तुवेऽहमिति, किंलक्षणान् ? - संसारसागरस्य पारगान्-पारं प्राप्तान्, अनेनेदृशानामपि महानुभावानां सत्ता ज्ञापिता, अत एव गच्छो रत्नाकर इति, यथा रत्नाकरे सत्यपि मकर-मत्स्यादियादसां समूहे परं प्रवाल-मौक्तिकादीनां महार्घवस्तूनां सद्भावाद् रत्नाकरत्वं न यातीति तथा गच्छरत्नाकरेऽप्युपनयोऽभ्यूह्य इति ||१४.५।।
[४२५] वचोऽप्रवृत्तिमात्रेण,
मौनं के के न बिभ्रते ? | निरवद्यं वचो येषां, वचोगुप्तांस्तु तान् स्तुवे ।।१४.६ ।।