________________
श्रीअध्यात्मकल्पद्रुमे
२८६
इति श्रीतपा. महोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्यायश्रीधनविजयगणिविरचितायां यतिशिक्षानाम्नी त्रयोदशी पदपद्धतिः ।। १३ ।।
रत्न.—अथ यस्य नाम्नाऽपि पूजां प्राप्नुवन्नसि, तस्मिन् परिणामसुन्दरेऽपि किं संयमे नोद्यमं कुरुषे ?
नाम्नाऽपि यस्य..इति व्याख्या - हे मुमुक्षो ! हे यते, यस्य संयमस्य नाम्नाऽपि जने-लोके, इति- अमुना प्रकारेण प्रत्यक्षतो दृश्यमानेन पूज्योऽसि, तर्हि-ततः शुद्धात् संयमाद्, इष्टानि - वाञ्छितानि च तानि सुखानि चेष्टसुखानि, कानि न भवन्ति ?, अपि तु सर्वाण्यपि भवन्ति, तत् तस्मात् कारणाद्, अस्मिन् संयमे किं न यतसे ? - यत्नं न करोषि ? अपि तु यत्नः कर्त्तुं युक्त इति, येन किंलक्षणैः ? - अनुभूयमानमरु - महत् फलं यस्य स तस्मिन् किमपि यस्य फलं साक्षादनुभूयमानं महच्च भवति तस्मिन् शर्करादाविव यत्नः कर्त्तुं युक्त एवेति, मोक्षमिच्छो ! मुमुक्षो ! इति संबोधनं साभिप्रायमिति ।। १३.५७ ।।
[४१०] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धुलब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्मकल्पफलस्य चकारवृत्तिं,
तत्र त्रयोदश इति प्रथितोऽधिकारः । । १३ ।। इति त्रयोदशोऽधिकारः ।।