________________
२७८
श्रीअध्यात्मकल्पद्रुमे पुमान् गुरोः प्रसादात् शास्त्रं-व्याकरण-प्रमाण-सिद्धान्तादिग्रन्थानां सूत्रमर्थं च प्राप्य, मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभागात्मानं नरेन्द्रमिव गणयेत्, च पुनः, कोऽपि पुमान् गुरोः प्रसादात् पदं पण्डितादिपदवीं प्राप्य मौखर्यादिवशीकृतर्जुजनतादानार्चनैर्गर्वभागात्मानं नरेन्द्रमिव गणयेत्, अत्र मुखरस्य भावो मौखर्यवाचालतेत्यर्थः, तद, आदौ-प्रथमं यस्य तत् तथा, आदिपदात सकपटवैराग्यमुद्रादिपरिग्रहः, तेन वशीकृता-रञ्जिता चासौ ऋजुजनता च-भद्रकजनसमूहः, तया विहितानि दाना-ऽर्चनादीनि प्रसिद्धानि तैस्तथेति, तं पुरुषं धिगस्तु, यतः स पुरुषो द्रुतं-निश्चितं दुर्गतौ-नरकादिगतौ गन्ता-गमनशील इति ।।१३.५० ।।
रत्न.-अथात्मनो रङ्कत्वादिदूषितां पूर्वावस्थां विलोक्य संयमावस्थायां संपदं प्राप्तोऽपि गर्वं कृत्वा दुर्गतौ गन्ताऽसीति कथयन्नाह -
रङ्कः कोऽपि.इति. व्याख्या-कश्चिद् गृहस्थवासमाश्रित्य निःस्वतया रङ्कः, स एवात्मानं नरेन्द्रमिव गणयन्, धिग्-निन्दितं यथा स्यात् तथा द्रुतं-शीघ्रं दुर्गतौ गन्ता, किं कृत्वा ? - वेषं प्राप्य, कस्य ? - यतेः, यतिसम्बन्धिनमित्यर्थः, किं कृत्वा ? - त्यक्त्वा, कां ? - जनानामभिभूतिः-पराभवो यस्यां सा चासौ पदवी च तां, तथा कथञ्चन-महता कष्टेन कियच्छास्त्रमिति-शास्त्राध्ययनं प्राप्य, तथा तन्मध्ये कोऽपि वाचनाचार्यः पण्डित उपाध्याय आचार्यः इतिरूपं पदं-बिरुदं प्राप्य, एतत् सर्वं गुरोः प्रसादात् प्राप्येत्यर्थः, गर्वं भजतीति गर्वभाक्, कैः ? - मुखरस्य भावो मौखर्यं, तदादि यस्य, तेन वशीकृता या ऋजुः-सरला, जनता-जनसमूहः, तया दानं वस्त्र-पात्रादीनां अर्चनं चन्दनादिभिस्तैरिति ।।१३.५० ।।
[३९३] प्राप्यापि चारित्रमिदं दुरापं,
स्वदोषजैर्यद् विषयप्रमादैः । भवाम्बुधौ धिक् पतिताऽसि भिक्षो !,
हतोऽसि दुःखैस्तदनन्तकालम् ||१३.५१।। धनवि.-अथानन्तरोक्तं विशेषतो निर्दिशति -