________________
श्रीअध्यात्मकल्पद्रुमे
कुर्वे न सावद्यम्-इति. व्याख्या - हे मुमुक्षो ! त्वं प्रत्यहमावश्यकं कुर्वन् सामायिकोच्चारे 'मनसा वाचा कायेन सर्वं सावद्यमहं न कुर्वे' इति प्रतिज्ञाम्अङ्गीकारं वदन्, केवलं देहो देहमात्रं तस्मादकुर्वन्नपि, सावद्यमिति ग्राह्यं, परं शय्या वसतिः सा आदौ येषां तानि शय्यादीनि तानि च तानि कृत्यानि, तेषु गृहस्थान्-याहि इदमानयेदं कुरु - इत्यादि नुदन् - प्रेरयन् सन् हृदा-मनसा गिरा-वचसा मोक्षमिच्छुर्मुमुक्षुरिति सान्वर्थनामा कथमसि ?, अपि तु तत्त्वदृष्ट्या विचार्यमाणे कायेन मुमुक्षुरसि, परं मनसा वाचा नास्येव, आदिशब्देन चैत्यादिग्रहणम्, अत्र नुदन्नित्यादेशविषयकं प्रेरणं ग्राह्यं श्राद्धानामेतत् करणीयं दृश्यते, पूर्वमपि ये श्राद्धा अभूवन्, तैरपि कृतमिति विधिरूपं तु दृश्यत एवेति, यतः
२७६
"१. जुत्तमेयं सूरियाभा ! २. पुराणमेयं सूरियाभा ! ३. करणिज्जमेयं सूरियाभा ! ४. आइण्णमेयं सूरियाभा ! ५. अब्भणुण्णायमेयं सूरियाभा ! ६. जीयमेयं सूरियाभा!" इति सूर्याभदेवताद्यधिकारे श्रीराजप्रश्नीयोपाङ्गे विधिवाक्यानां दृश्यमानत्वादिति ।।१३.४८ ।।
[३९१] कथं महत्त्वाय ममत्वतो वा, सावद्यमिच्छस्यपि सङ्घलोके ? | न हेममय्यप्युदरे हि शस्त्री,
क्षिप्ता क्षणोति क्षणतोऽप्यसून् किम् ? ।।१३.४९।।
धनवि . - -अथ मनोगुप्त्यधिकाराद् धर्मनिरपेक्षं परार्थं सावद्यचिन्तने दोषं दर्शयन्नुपदिशति
'कथं महत्वाय' इति, महत्त्वाय आत्मनो गौरवाय, वा अथवा ममत्वतो - ममत्वबुद्ध्या, सङ्घलोकेऽपि साधु-साध्वी - श्रावक-श्राविकालक्षण-चतुर्विधसङ्घेऽपि सावद्यं-सपापं कर्म मूलकर्मादि- द्रव्यप्राप्ति - पुत्रप्राप्त्याद्युपायभूतं कथमिच्छसि ? वाञ्छसि; हि-यतः कारणाद्, हेममयी- सुवर्णमयी शस्त्री - कृपाणिका उदरे- जठरे क्षिप्ता-प्रक्षिप्ता, क्षणतोऽपि क्षणादपि, असून्-प्राणान् किं न क्षणोति ? हिनस्ति । अत्र सङ्घलोकः सुवर्णस्थानीयः, तस्य स्वमहत्त्वार्थं ममताबुद्ध्या
-
·
न