________________
२७१
यतिशिक्षोपदेशद्वारम्
धनवि.-अथ वचनगुप्तिमेव केवलामुपदिशति - 'ध्रुवः प्रमादैर्' इति, हे मुन! - हे साधो ! प्रमादैर्, हेतुभूतैः भववारिधौसंसारसमुद्रे तव प्रपात:-पतनं ध्रुवो-निश्चलोऽस्ति, चेद्-यदि पुनर, द्वितीयः परमत्सर:-परेषु-आत्मव्यतिरिक्तेषु मत्सरः-असूयाकरणम्, उरुशिलोपमः-उर्वी चासो शिला च-स्थूलोपलः, तत्समानो गले-कण्ठे निबद्धो-नियन्त्रितोऽस्ति, तदा भववारिधी, उन्मज्जनमपि-पुनरुपरि तरणमपि कथं ?, केन ? - अवाप्स्यसि-लप्स्यसे ||१३.४३।।
रत्न.-अथ प्रमादपरिहारं भङ्ग्यन्तरेणोपदिशति -
ध्रुवः प्रमादैः-इति. व्याख्या-हे मुने ! तव प्रमादैर्हेतुभिर्भववारिधौ-संसारसमुद्रे प्रपातः-प्रपतनं ध्रुवो-निश्चितोऽस्ति, अवश्यंभावीत्यर्थः, प्रमाद-संसारपातयोधूमवन्योरिव व्याप्तिमत्त्वात्, पुनरन्यः प्रमादोपरीत्यर्थः, चेद्-यदि परेषु, मत्सरईर्ष्या परमत्सरोऽस्ति, कस्य ? - तव, किंलक्षणः ? - गले-कण्ठे निबद्धा या उरु:-महती शिला, तया उपमीयते यः सः तदा, उन्मज्जने निमग्नस्य जलोपर्यागमनमपि कथं केन प्रकारेणा-ऽऽप्स्यसि ?, अपि तु न अवाप्स्यसि, तेन प्रमादं परमत्सरं च जहाहीत्युपदेशः ।।१३.४३।। [३८४] महर्षयः केऽपि सहन्त्युदीर्या
ऽप्युग्रा-ऽऽतपादीन्यपि निर्जरार्थम् । कष्टं प्रसङ्गागतमप्यणीयोऽपीच्छन्शिवं किं सहसे न ? भिक्षो ! ।।१३.४४।।
धनवि.-अथ केवलां कायगुप्तिमुपदिशति -
'महर्षयः' इति, केऽपि जगदद्भुत-चरित्रा, महर्षयो-महामुनयः, उदीर्यापिउदीरणं कृत्वाऽपि, उग्रातपादीन्यपि ग्रीष्मकाले, आदिपदाच्छीतकाले शीतवातादीन्यपि, कष्टानि निर्जरार्थ-कर्मक्षयार्थं सहन्ति, तदा हे भिक्षो ! - मुन ! त्वं शिवं-मोक्षम्, इच्छन्-वाञ्छन् प्रसङ्गागतमपि-स्वभावत एवोपस्थितमपि,