________________
२४४
श्रीअध्यात्मकल्पद्रुमे
-
1
निचितात् प्रमादाद्-विषय- कषायादिहेतोः ऋणार्णमग्नस्य परत्र - परभवे का ? दुष्टानिष्टत्वेनानिर्वाच्या गतिः कुगतिर्भविष्यति, तत्र ऋणं देयं तन्मध्ये ऋणंदेयमृणार्णम्-अतिशयेन ऋणं तत्र मग्नस्य - बुडत इत्यक्षरयोजना; भावार्थस्त्वयंचारित्रं गृहीत्वा प्रमादसेवनमेकमृणम्, अपरं च तपःकरणमन्तरेण परेभ्यः शय्यादिप्रतिग्रहकरणमिति ।।१३.१६।।
रत्न.–गृह्णासि..इति. व्याख्या - हे वेषधूर्त्त ! त्वं परेभ्यो गृहस्थेभ्यः शय्याऽऽहृति-पुस्तकोपधीन्, सदा- अहरहर्गृह्णासि, आहृतिराहारः, शेषं सुगमं, तुरितिविशषे, तपसो धर्मस्येयं प्रत्यक्षतो दृश्यमाना स्थितिः- मर्यादा वर्त्तते, अतीव निकृष्टेत्यर्थः, तत्-तस्मात् कारणात् ते तव प्रमादात् प्रमादाचरणाद् ऋणस्य ऋणं ऋणाणं, ऋणोपरि ऋणमित्यर्थः, तत्र मग्नस्य ते तव परत्र - परलोके का गतिश्चतसृणां गतीनां मध्ये इत्यर्थः, अथवा का गतिः - अवस्था भाविनीति, प्रमादात् कथंभूताद् ? - भरितात् निचितात् कैः ? प्रतिग्रहैः- गृहस्थगृहीत- शय्या-ऽऽहृति-पुस्तकोपधिप्रभृतिकैः, प्रमादवतः सतः प्रतिग्रहग्राहिणः, तत एव ऋणार्णमग्नस्य तव का गतिर्भाविनीति कथनेनाचार्यो दुष्टा गतिरेव भाविनीति सूचयतीति ।। १३.१६ ।।
-
[ ३५२ ] न काऽपि सिद्धिर्न च तेऽतिशायि,
मुने ! क्रिया-योग- तपः श्रुतादि । तथाऽप्यहङ्कारकदर्थितस् त्वं,
ख्यातीच्छ्या ताम्यसि, धिग् मुधा किम् ? ।।१३.१७ । ।
धनवि . - नन्वहं गुणवान् मम प्रमादिनोऽप्यनन्तरोक्तप्रतिग्रह ऋणं न भवति, पठितब्राह्मणस्य पापघटप्रतिग्रहवत् परत्र च गुणैरेवाहमनन्तं सुखं लभे इत्यहङ्कार-कदर्थितमुपदेष्टुमाह
'न काऽपि' इति, हे मुने ! ते तव कापि ज्ञायमानाऽज्ञायमाना वा सिद्धिःसुवर्णादिसिद्धिरणिमादिसिद्धिर्वा नास्ति न वर्त्तते; च पुनस्ते - तव क्रिया-योगतपः-श्रुताद्यतिशायि-सर्वेभ्योऽतिशयितं नास्ति, अत्र क्रियाश्च सम्यक्क्षमाश्रमण-वन्दनादिका, योगश्च - कालिकोत्कालिकश्रुतोद्देशसमुद्देशानुज्ञा
-