________________
२४२
फलमस्माकमपि भविष्यतीत्यहङ्कारवतां वेषमात्रधारिणामहङ्कारतिरस्कारायाह
'आराधितो वा' इति, अत्र वाशब्द एवकारार्थः संभावनार्थो वा, तेनआराधित एव-आहारादिनोपचरित एव गुणवान् ज्ञानादिगुणवान् मुनिः, स्वयम्आत्मना भवाब्धिं-संसारसागरं तरन्- संसारपारं गच्छन् - अस्मानपि आराधकान्, तारयिष्यति-संसारपारं प्रापयिष्यति इति - एवं बुद्ध्या ये जनास्त्वां भूरिभक्तिभिःबहुप्रकाराराधनैः संश्रयन्ति सेवन्ते, एवं हे निर्गुण ! गुणवर्जित ! एषाम् आराधकानां च पुनस्तव निर्गुणाराध्यस्य फलम् -आयतिहितलक्षणं साध्यं किमस्तीति ? ।।१३.१४।।
-
रत्न. - अथ त्वमीदृशः सन् भवाब्धौ निमज्जसि, तदा परान् दीक्षादानादिना कथं निमज्जयसीत्याह
1
श्रीअध्यात्मकल्पद्रुमे
आराधितोऽयम् इति व्याख्या हे यतिवेषनट ! अयं ज्ञान दर्शन- चारित्रैर्गुणवान् संसाराब्धिं स्वयं तरन्, आराधितः -पूजितः सन् अस्मानपि तारयिष्यति इतिहेतोः, ये त्वां भूरिभक्तिभिः श्रयन्ति, हे निगुण ! हे ज्ञानादिगुणरहित ! तव च पुनरेषामाश्रितानां-शिष्यत्वेन श्रावकत्वेन वा प्रपन्नानां फलं किमस्ति ?, विचारयेति गम्यं, अपि तु न किमपीत्यर्थः, ततस्त्वं निमग्नः परानपि निमज्जयसीति भावः ।।१३.१४।।
[३५०] स्वयं प्रमादैर्निपतन् भवाम्बुधौ,
कथं स्वभक्तानपि तारयिष्यसि ? ।
प्रतारयन् स्वार्थमृजून् शिवार्थिनः, स्वतोऽन्यतश्चेति विलुप्यसेऽङ्हसा ।।१३:१५।।
धनवि . – अनन्तरं निर्गुणानां मुनीनां सगुणश्राद्धेभ्योऽन्नादिग्रहणे निष्फलत्वं पुण्योपार्जनलक्षणफलवर्जितत्वं च दर्शितम् अथ तत्रैव प्रत्युत पापोपार्जनलक्षणं फलं दर्शयन्नुपदिशति
'स्वयं प्रमादैर्' इति, स्वयम् - आत्मना, प्रमादैः मद्यादिभिः भवाम्बुधौ-संसारसागरे
-