________________
२२२
श्रीअध्यात्मकल्पद्रुमे ___ 'भक्त्यैव' इति यदि त्वं भक्त्यैव-केवलया भक्त्या आराधनबुद्ध्या जिनंवीतरागं नार्चसि-न पूजयसि, च पुनः सुगुरोः-सद्गुरोः सकाशाद् धर्म-श्रुतधर्मरूपं नाकर्णयसि-न श्रुणोषि, च पुनर्, अविरतं-निरन्तरं विरती:-आश्रवादिभ्यो निवृत्तीन धत्से-न बिभर्षीत्यर्थः, च पुनः, सार्थ-सप्रयोजनं निरर्थं निष्प्रयोजनम्, अप्यघानिपापानि हिंसादीनि प्रचिनोषि-प्रकर्षण पुष्टिं नयसि, तत्-सदा अमुत्र-परलोके केन मूल्येन-निष्क्रयेण शं-सुखं स्वर्गापवर्गादिजं समीहसे ? - वाञ्छसीत्यर्थः ।।१२.१३।।
रत्न.-एतदेव प्रकारान्तरेण निर्दिशन्नाह -
भक्त्यैव नार्चसि..इति. व्याख्या-हे आत्मन् ! त्वं भक्त्या, एवेत्यवधारणे, जिनं नार्चसि-न पूजयसि, कदाचिदपि पूजयसि तदा लज्जा-कुलक्रमादिना पूजयसीत्येवकारेण सूचनं, च पुनः, सुगुरोः पार्श्वे धर्ममर्हत्प्रणीतं नाकर्णयसिन श्रुणोषि, सुशब्देन कदाचित् श्रुणोषि तदा कुगुरोः पार्श्वे इति सूचनं, कथ?, अविरतं-निरन्तरमिति सर्वत्र योज्यं, तथा विरतीः-अष्टादशपापस्थानकेभ्यः' विरमणानि न धत्से-न दधासि, च पुनः, सार्थं कुटुम्बादिदाक्षिण्यहेतुना निरर्थंनिरर्थकम् अपध्यानाचरित-पापोदेश-हिंस्रप्रदान-प्रमादाचरितभेदाद् यथा स्यात तथा त्वमधानि-पापानि प्रति प्रचिनोषि-प्रचयं नयसि, तत्-तस्मात् कारणात्, केन मूल्येन-मूल्यप्रदानरूपेणैव कर्मणा सुकृताचरणलक्षणेन शं-सुखं समीहसे ? - वाञ्छसीति ।।१२.१३।। [३२८] चतुष्पदैः सिंह इव स्वजात्यैर्
मिलन्निमांस्तारयतीह कश्चित् । सहैव तैर्मज्जति कोऽपि दुर्गे,
शृगालवच्चेत्यमिलन् वरं सः ||१२.१४ ।। धनवि.-अथ सुगुरुसङ्गत्यां गुणं कुगुरुसङ्गत्यां च दोषं दृष्टान्तपूर्वकमुपदर्शयन्नुपदिशति -
'चतुष्पदैः' इति, इह संसारे कश्चित् सुगुरुः स्वजात्यैः-पञ्चेन्द्रियसंज्ञिमनुष्यादिभिः १. ०भ्यः पञ्चदशकर्मादानेभ्यश्चधि. इति मु० । २. 'सम्यग्' इति पदं मुद्रितेऽधिकम् ।