________________
२१२
श्रीअध्यात्मकल्पद्रुमे 'नीरुग् न भवति । तैः कै ? - इत्याह-येषां रसायनानां प्रयोक्ता-कर्ता कथको वा भिषगेव-वैद्य एव मूढो-मूोऽस्तीति, उपनययोजना सुगमैवेति ।।१२.२ ।। [३१५] समाश्रितस्तारकबुद्धितो यो,
यस्यास्त्यहो मज्जयिता स एव । ओघं तरीता विषमं कथं स ?,
तथैव जन्तुः कुगुरोर्भवाब्धिम् ।।१२.३।। धनवि.-अथ गुरुपरीक्षायामेव कुगुरोरभिलषितफलासाधकत्वं दर्शयन्नाह -
'समाश्रित' इति, यथा यः पुरुषो यं तारक इति बुद्धितः समाश्रितःसेवितः, स एव पुरुषः, अहो इत्याश्चर्ये, यस्य पुरुषस्य मज्जयिता-बोलयिताऽस्ति, स पुरुषो विषमम्-अतिशयेनागाधमतिशयेन चपलं वा ओघं-प्रवाहं कथं तरीता? - कथं तरिष्यतीत्यर्थः, तथैव इति दार्टान्तिकोपन्यासे, जन्तुः-संसारी प्राणी कुगुरोः-उन्मार्गगामिन उन्मार्गप्ररूपिणश्च पुरुषाद् भवाब्धिं-संसारसमुद्रं कथं तरीतेत्यर्थः; अत्र विषमप्रवाहस्य संसारदृष्टान्तता, कुतारकस्य कुगुरुदृष्टान्तता वाच्येति ।।१२.३।।
रत्न.-अथ कुतारकदृष्टान्तेन कुगुरुः कथं निमज्जयिता भवतीत्याह-समाश्रित इति., व्याख्या-यो जन्तुस्तारकबुद्धितोः-असौ मां तारयिष्यतीति बुद्धेर्यं तारकं समाश्रितः, अहो इति आश्चर्ये, स एव यस्य मज्जयिता भवति, स जन्तुर्विषममोघंप्रवाहं अर्थादगाधजलाश्रयस्य कथं तरीता स्याद् ?, अपि तु न स्यात्, तथैव दृष्टान्तेन यो भवाब्धितारकबुद्ध्या यं गुरुं समाश्रितः स एव गुरुः परिणामतः कुगुरुर्यस्याश्रितस्य मज्जयिता वर्त्तते, स जन्तुस्तस्मात् कुगुरोः सकाशाद् भवाब्धि-भवसमुद्रं अतीव विषमं कथं तरीता स्याद् ?, अपि तु न तरीतेति भावः ||१२.३।।
१. कल्यो न-अरुग् न. मु० | २. पो.3j - इति देश्योऽयं धातुः | ३. बुद्धेः मु० ।