________________
वैराग्योपदेशद्वारम्
क्वचित् कषायैः इति, व्याख्या हे आत्मन् ! त्वमात्मानं स्वं प्रति किं कलुषीकरोषि ? - मलिनीकरोषि, कैः ? - कषायैः-क्रोध-मान-माया-लोभैः, कथं ? - क्वचित्-क्वचन प्रमादैः-मद्यादिभिः, क्वापि च कदाग्रहै:-कुत्सितहठैः कुमतोपदेशादिभिरित्यर्थः, क्वापि च मत्सराद्यैः, डमरुकमणिन्यायेन क्वापि चेत्यत्रापि योज्यं, आद्यशब्देनाष्टादशपापस्थानकानां ग्रहणं, परं त्वं परभवे नरकान्नो बिभेषि, त्वं किंलक्षणः ? - न विद्यते धर्मो यस्य सोऽधर्मा, समासे धर्मशब्दात् अन्प्रत्यये सिद्धम्, ततस्त्वामविचारकत्वाद् धिगस्त्विति ||१०.२६ ।।
[२९७] श्रीशान्तिचन्द्रवरदुग्धसिन्धु
लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः । अध्यात्मकल्पफलदस्य चकार वृत्तिं, तस्यां गतो विवृतितो दशमोऽधिकारः ।।
इति दशमोऽधिकारः ।।