SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ कषायनिग्रहद्वारम् धनवि . - . - अथ कषायविशेषमद - मत्सरादिनिग्रहमुपदिशति 'करोषि' इति कदाचिद्-अनन्तोत्सर्पिण्यवसर्पिण्यादिकालातिक्रमे कथञ्चित्कर्मणां लाघवे जाते त्रयोदशकाष्ठिकेभ्यो लब्धावकाशतया किञ्चिद् दानशीलाद्यन्यतरद् अल्पं-स्वल्पमात्रं यत् सुकृतं पुण्यं प्रेत्यहिताय - परलोकसुखाय करोषि तत् सुकृतं मदश्च-जात्यादिभिरवलिप्तचित्तत्तावृत्तिः, मत्सरश्च - परसंपदसहनं, तौ आद्यौ-प्रथमौ येषां ते तथा तैर्मद-मत्सराद्यैः, आद्यपदात् स्वश्लाघा - परनिन्दा - नवनोकषायादिभिर्मा जीहरः-मा हारय इत्यर्थः, च पुनस्, तत् सुकृतं विना नरकातिथिः- नरकगतिप्राघूर्णको मा भूः-मा भवेत्यर्थः, अत्र कथञ्चित् कष्टेन त्रयोदशकाष्ठिकेभ्यो लब्धावकाशतयेत्युक्तम्, ते च त्रयोदश काष्ठिकाः [आवश्यकनिर्युक्तौ] [१६९] आलस्स-मोहऽवन्ना थंभा कोहा पमायकिविणत्तं । - १०७ भय-सोगो अन्नाणं वक्खेवकुऊहला रमणा ।। [८४१]।। तत्र १. आलस्यवान् साधुसमीपं न गच्छति न शृणोति वा २. मोहाद् गृहकर्त्तव्यतामूढो वा ३. अवज्ञातो वा 'किमेते जानन्ति इति वा ४ स्तम्भाद् वा जात्याद्यभिमानात् ५. क्रोधाद् वा साधुदर्शनादेव कुप्यति ६. प्रमादाद् वा मद्यादिलक्षणात् ७. कृपणत्वाद् दातव्यं किञ्चित् स्यादिति ८ भयाद् वा नरकादिभयं वर्णयन्तीति ९. शोकाद् वा इष्टवियोगजात् १०. अज्ञानाद् वा कुदृष्टिमोहितः ११. व्याक्षेपाद् वा बहुकर्त्तव्यतामूढः १२. कुतूहलान्नटादिविषयात् १३. रमणाद् वा लावकादिखेड्डेनेति १४. गाथार्थः, इत्यावश्यकवृत्तौ सामायिकप्राप्त्यधिकाराद् ज्ञेया इति । ।७.१३ ।। रत्न. -अथ जीवं प्रति सुकृतरक्षणविषये उपदिशति करोषि यत्प्रेत्यहिताय..इति., व्याख्या - हे आत्मन् ! यत् त्वं कदाचित् काले किंचिद्-दानादि तपोऽनुष्ठानादि वा अल्पं सुकृतं प्रेत्यहिताय - परभवे हितार्थं करोषि कथं ? - कथञ्चित् महता कष्टेन तत् सुकृतं मद-मत्सराद्यैरभिमानपरसम्पत्त्यसहनाद्यैः प्रयोजकैर्मा जीहर:- मा हारय । च पुनस्तत् सुकृतं विना सप्तानां नरकाणामतिथिः-प्राघुणेस्त्वं मा भूः मा भव । एते मद-मत्सराद्याः १. प्राघूर्णः - मु० ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy