________________
१०१
कषायनिग्रहद्वारम्
इति गाथार्थभावनया बाहुबलिदृष्टान्तः स्पष्ट एवेति ।७.७ ।। रत्न.-अथ तपःप्रवृत्तेरपि मानमुक्तिः कर्तुं दुःशकेति दर्शयन्नाह -
सुखेन साध्या...इति, सम्यग् विचार्येति च युग्मव्याख्या-हे आत्मन् ! यथा तपसां प्रवृत्तिः-प्रवर्त्तनं सुखेन साध्या वर्त्तते तथा मानस्य मुक्तिः-मोचनं न सुखसाध्या, आद्या-प्रथमोद द्दिष्टा तपसां प्रवृत्तिः शिवं-मोक्षं न दत्तेऽपि-न ददात्यपि, मानमुक्तिं विना केवलेत्यपिशब्दार्थः, नुरिति विशेषे, परा अन्यामानमुक्तिः शिवं प्रदत्ते, कस्माद् ? - निदर्शनाद्-दृष्टान्तात्, कस्य ? - बाहुबले-भरतानुजस्य, सत्यपि तपसि बाहुबलिना मानमुक्तिर्न कृता, तावत् केवलं नोत्पन्नमेव, यदा मानमुक्तिः कृता, तदा तत्समय एव केवलमुत्पन्नमिति ||७.७।।
[१६१] सम्यग् विचार्येति विहाय मानं,
रक्षन् दुरापाणि तपांसि यत्नात् । मुदा मनीषी सहतेऽभिभूतीः,
शूरः क्षमायामपि नीचजाताः |७.८।। धनवि.-अनन्तरोक्तार्थमेव विशदयन्नितिकर्त्तव्यतामादिशति -
'सम्यग्' इति-इत्यनन्तरोपदिष्टं, सम्यग्-यथास्वरूपतया विचार्य मानम् अहङ्कारं विहाय-त्यक्त्वा दुरापाणि-भवकोटिशतैरपि दुष्प्रापाणि तपांसि-तपःकर्माणि पूर्वमाचरितानि यत्नाद्-उद्यमाद् रक्षन्-पालयन् क्षमायां-क्षान्तौ शूरो-वीरो मनीषीपण्डितः साधुर्नीचजाता अपि-अधमजनजनिता अपि अभिभूती:-पराभवान् मुदामम प्राक्कृतकर्मनिर्जराऽवाञ्छिता सहसा स्वत एव जायत इति हर्षेण सहतेक्षमत इत्यर्थः ।।७.८।।
रत्न.-मनीषी-पण्डितः इति सम्यग्विचार्य मानं विहाय-त्यक्त्वा मुदाहर्षेणाभिभूती-अभिभवान् सहते-क्षमते, किं कुर्वन् ? - रक्षन्, कानि प्रति ?