________________
कषायनिग्रहद्वारम् लाभा-ऽलाभौ-आय-व्ययौ विचार्य-पौर्वापर्यालोचनया परामृश्य, आभवसंभविन्याभवं यावत् संभावनाविषयीकृतायाम्, अभिभूतौ-पराभूतौ सत्यां, तप-स्वाचरितं तपःकर्म अथवा मान-अहङ्कारम्, अव-रक्षेत्यर्थः, हि यतः कारणाद् इह-संसारे नूनं-निश्चितं पराभिभूतौ जायमानायां, गतिः-मार्गः प्रकारो वा द्विधैव-द्विप्रकारैव तपोरक्षणं मानरक्षणं वाऽस्तीति, भावार्थस्तु मानत्यागे आभवसंभविवचनमात्रपराभवो भवति, मानादरे च परभवसंभवि-नरकादिपराभवो भविष्यतीति लाभालाभरूपं मार्गद्वयं विचार्य यदिष्टं तद् गृहाणेति ।७.३।।
रत्न.-अथ मानामुक्तेर्मानमुक्तेश्च पृथक् फले आह -
पराभिभूतौ'इति, वैरादि चात्रेति च, युग्म., व्याख्या-हे आत्मन् ! परेषामभिभूतौ सत्यां, यदि मानस्य-अहङ्कारस्य मुक्ति:-मोचनं वर्त्तते, ततो मानमुक्तेः तपः अखण्डं वर्त्तते, अतोऽखण्डात् तपसः शिवं-मोक्षो भविष्यति, चेति विशेषे पक्षान्तरे वा, दुर्वचनादिभिर्हेतुभिर्मानादृते-उनादरणात्-मानाङ्गीकारजनितात् तपक्षयात् तत्, निरयावलिकोपाङ्ग्रोक्तं नरकादिदुःखं भविष्यति, च पुनरत्र भवे वैरादिवर्धते, आदिशब्दाद् वैरजन्यद्रव्यनाश-मरणदुःखयोर्ग्रहणम्, हे कृतिन् ! - हे पण्डित ! त्वं लाभा-ऽलाभौ मानमुक्तेर्लाभं मानादृतेश्चालाभं विचार्याभिभूतौ क्रियमाणायां तपः प्रति अव-रक्ष अथवा मानमव, अभिभूतौ किंभूतायां ? - भवं मर्यादीकृत्य-आभवम्, आभवं सम्भवो अस्त्यस्याः सा आभवसम्भविनी तस्यां, परभवे अनुगामिनी नास्तीति सूचनं, नरकादिदुःखं अनेकभवानुबन्धीति सूचनं च, इह पक्षे गतिरूपायो, नूनं-निश्चितं हि यस्मात् कारणाद् द्विधैवास्ति, एवकारः अन्यव्यवच्छेदार्थः, तेन तृतीया गतिर्नास्तीति सूचितं। अर्थतो युग्मव्याख्यानम् |७.३।। [१५६] श्रुत्वाऽऽक्रोशान् यो मुदा पूरितः स्याल्
लोष्टाद्यैर्यश्चाहतो रोमहर्षी । यः प्राणान्तेऽप्यन्यदोषं न पश्यत्येष श्रेयो द्राक् लभेतैव योगी ।।७.४।।