________________
२९५
परिशिष्टम् - ६
(१२) ऋजुजडादित्वे कारणम्
नटादिज्ञातान्नर्तकप्रभृत्युदाहरणात् किल केचित् प्रथमतीर्थसाधवो विचारभूमेर्गुरुसमीपमागताः पृष्टाश्च गुरुभिः यथा - "भोः किमियच्चिरादागता यूयं ?" । त ऋजुत्वादूचु:, यथा-"नटं नृत्यन्तं वीक्ष्यमाणाः स्थिताः” ततो गुरुस्तानभ्यशिषत्, यथा- " मा पुनरेवं कार्षुरिति" प्रतिपन्नवन्तश्च तत्त । ततोऽन्यदा ते तथैव पृष्टा ऊचुः, यथा - "नटीं नृत्यन्तीं वीक्षमाणाः स्थिताः । " गुरुणा प्रेरिताश्च ते जडत्वादभिदधुः - " भवद्भिर्नटस्तदा निषिद्धः, न नटीति" । नटे हि निषिद्धे रागहेतुत्वान्नटी नितरां निषिद्धैवेति प्रतिपत्तुं न शकितं तैरिति । आदिशब्दाद्धस्त्यादिग्रहः । भवन्ति स्युः । विज्ञेया ज्ञातव्याः । वक्रजडाः शठमुग्धाः पुनः । चरमा अन्तिमाः । तत एव ज्ञातात्-किल केचिच्चरमजिनसाधवस्तथैव पृष्टा ऊचुः, यथा - "नटं वीक्ष्यमाणाः स्थिताः " । ततो गुरुणा निषिद्धाः । पुनरन्यदा पृष्टा वक्ततयोत्तरान्तराणि ददुः । निर्बन्धे च नटीमुक्तवन्तः उपालब्धाः सन्तो जडत्वादूचुः, यथा-“नट एव न द्रष्टव्य इत्यस्माभिर्ज्ञातमासीदिति ।" ऋजुप्रज्ञा आर्जवोपेताः प्रज्ञावन्तश्च । तत एव ज्ञातात्-एते हि किल तथैव पृष्टा ऋजुत्वादूचुः- "नटं वीक्ष्यमाणाः स्थिताः” । ततो गुरुणा तथैवोक्ताः । पुनरन्यदा नहीं दृष्ट्वा प्राज्ञत्वाद्विकल्पितवन्तः, नटवन्नट्यपि न वीक्षितव्या रागहेतुत्वादिति । मध्यमा द्वाविंशति - जिनसाधवः । भणिता उक्ताः । इति गाथार्थः ॥१७/४३॥