________________
२१०
१६-प्रायश्चित्तविधि-पञ्चाशकम् गाथा-२४-२७ अण्णेसिं पुण तब्भवतदण्णवेक्खाएँ जे अजोग त्ति । चरणस्स ते इमे खलु, सलिंगचितिभेदमादीहिं ॥७६८॥१६/२४
अन्येषां पुनस्तन्त्रान्तरीयाणां स्वतन्त्रस्थितानां च तद्भवे तस्मिन् भवे, तदन्यापेक्षया दीक्षाऽनर्हा परमपुरुषापेक्षया, येऽयोग्या इत्यनुचितरूपाः, चरणस्य चरित्रस्य, तेऽयोग्या, इमे खल्विमे भवन्ति । स्वलिङ्गचैत्यभेदादिभिरुपलक्षिताः स्वलिङ्गभेदेन ऋषिहत्यादिना, चैत्यभेदेन प्रतिमाऽन्यथात्वाऽऽपादनेनाऽत्यन्ताऽयोग्याः खल्विमे भवन्तीत्येवमुपन्यासः । सामान्यतस्त्वनलसूत्रप्रतिपादिताऽन्ययोग्या भवन्त्येव । न च त एवं सक्लिष्टास्तेषां तज्जन्मन्यपि कथञ्चित्तद्योग्यत्वसम्भवात् ॥२४॥
तदेतदन्यमतमपि पूर्वोक्तं कथञ्चित्समर्थयमानः सूरिरिदमाह - आसयविचित्तयाए, किलिट्ठयाए तहेव कम्माणं । अत्थस्स संभवातो, णेयं पि असंगयं चेव ॥७६९॥ १६/२५
आशयविचित्रतयाऽध्यवसायविचित्रत्वेन जीवानां, क्लिष्टतया निरुपक्रमक्लिष्टत्वेन । तथैव कर्मणा चारित्रमोहनीयान्तःपातिनां ज्ञानावरणादीनां वा, अर्थस्य तदभावापेक्षयात्यन्तायोग्यत्वलक्षणस्य, सम्भवत्वात् सम्भवित्वात्, नैतदप्यन्यमतम्, असङ्गतमेव सर्वथाऽयुक्तरूपमेव किन्तु कथञ्चित्सङ्गतमपि ॥२५॥
पाराञ्चिकप्रस्तावमेवाङ्गीकृत्येदमाह - आगममाई य जतो, ववहारो पंचहा विणिहिट्ठो।। आगम सुय आणा धारणा य जीए य पंचमए ॥७७०॥ १६/२६ एयाणुसारतो खलु, विचित्तमेयमिह वण्णियं समए । आसेवणादिभेदा, तं पुण सुत्ताउ णायव्वं ॥७७१॥ १६/२७
आगमादिश्च यतो यस्माद्, व्यवहारः प्रायश्चित्तविषयः, पञ्चधा पञ्चविधः, निर्दिष्टः कथितः । कः पुनरसौ ?[तत्] परिज्ञानार्थं भेदनिर्देशः । (१) आगम इत्यागमव्यवहारः केवल-मनः पर्याया-ऽवधि-चतुर्दशपूर्वधरादिविषयः ते हि साक्षादुपायैर्वा पराभिप्रायमवितथं पश्यन्ति । नैतदृष्टे क्वचित् विसंवादः, तेन प्रत्यक्षरूपापन्न एवायं परगतसर्वापरानां जन्मभाविनामपि तथात्वेनोपलम्भात्। (२) श्रुतव्यवहारो द्वितीयो, ये श्रुतोपदेशेन प्रायश्चित्तं प्रयच्छन्ति, तद्विषयः (३) आज्ञाव्यवहारो देशान्तरव्यवहितयोद्वयोर्गीतार्थयोः प्रज्ञावत् पुरुषधारणाशक्तिगोचरः । स