SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ ॥द्वादशं साधुसामाचारी-पञ्चाशकम् ॥ साधुधर्मानन्तरं तत्सामाचारीमाह नमिऊण महावीरं, सामायारी जतीण वोच्छामि । संखेवओ महत्थं, दसविहमिच्छादिभेदेण ॥५४५॥ १२/१ नत्वा महावीरमनन्यसदृशं वीरं सामाचारी शिष्टाचरितक्रियाकलापरूपां यतीनां सम्बन्धिनी वक्ष्यामि निर्देक्ष्यामि, सङ्कपतः सङ्केपेण महा● महाप्रयोजनां मोक्षफलत्वात्, महाविधेयां वा । प्रशक्तान् [प्रशस्तान्] प्रशक्त्या, दशविधां दशप्रकाराम् इच्छादिभेदेन वक्ष्यमाणेन ॥१॥ दशविधत्वमेवाह - इच्छा१ मिच्छार तहक्कारो३, आवस्सिया४ य निसीहिया५ । आपुच्छणा६ य पडिपुच्छा७, छंदणा८ निमंतणा९ ॥५४६॥ १२/२ उपसंपया१० य काले, सामायारी भवे दसविहा उ। एएसि तु पयाणं, पत्तेयपरूवणा एसा ॥५४७॥१२/३ जुग्गं । इच्छा-मिथ्या-तथाकारः। कारशब्दः प्रत्येकमभिसम्बध्यते, स च प्रयोगवचन:-इच्छाकारो मिथ्याकारस्तथाकारश्चेति । आवश्यिका च निषीधिका आपृच्छना च प्रतिपृच्छा छन्दना च निमन्त्रणा च ॥२॥ उपसम्पत् च काले कालविषये प्रस्तुतत्वात् त्रिविधकालस्य, ओघ-दशधा-पदविभागसामाचार्युपक्रमरूपस्य, अन्यथा सामान्यनैव सामाचारी भवेद्दशविधा तु दशप्रकारा, एतेषां तु पदानां दशानामपीच्छादीनां प्रत्येकप्ररूपणा विषयविभागकथनरूपा एषा वक्ष्यमाणा ॥३॥ तत्रेच्छाकारविषयमाह - अब्भत्थणाइ करणे य कारवणेणं तु दोण्ह वि उचिए । इच्छक्कारो कत्थइ, गुरुआणा चेव य ठिति त्ति ॥५४८॥ १२/४ अभ्यर्थनायां करणे च कारणेन तु द्वयोरप्युचिते इच्छाकारः क्वचिद्विषये गुर्वाज्ञा चैव च स्थितिरिति मर्यादा इतीयं सूचा गाथा चिरन्तनी ॥४॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy