________________
१४४
११-साधुधर्मविधि-पञ्चाशकम् गाथा-१२-१६ अगीतार्थो गीतार्थाज्ञाकारणादित्युक्तम्, तत्राज्ञाप्राधान्येनैवाह । अथवा सम्यगनुष्ठानमाज्ञासारं धर्म इत्युक्तम्, तदेवोद्दिश्यमाह -
आणारुइणो चरणं, आणाए च्चिय इमं ति वयणाओ। एत्तोऽणाभोगम्मि वि, पण्णवणिज्जो इमो होइ ॥५०६॥ ११/१२
आज्ञारुचेश्चरणं आज्ञात एवेदमिति वचनात् अत आज्ञारुचित्वाद्, अनाभोगेऽप्यपरिज्ञानेऽपि विशेषतः क्वचिदस्तुत्यानुष्ठाने विषयीकृते प्रज्ञापनीयोऽवबोधनीयः सुखसम्पाद्यावबोधः, अयमगीतार्थो भवति ॥१२॥ एसा य परा आणा, पयडा जं गुरुकुलं न मोत्तव्वं । आचारपढमसुत्ते, एत्तो च्चिय दंसियं एयं ॥५०७॥ ११/१३
एषा चैवंरूपा परा प्रधाना, आज्ञा भागवती, प्रकटाऽनावृतस्वरूपा 'यत् गुरुकुल गुरुसन्ततिः न मोक्तव्यम्' न त्याज्यम् । आचारप्रथमसूत्रे आचाराङ्गप्रारम्भसूत्रे 'सुयं मे आउसंतेण' इत्यादा। अत एवाज्ञाप्राधान्यादेव दर्शितमेतत् गुरुकुलामोचनम् ॥१३॥
एयम्मि परिच्चत्ते, आणा खल भगवतो परिच्चत्ता । तीए य परिच्चागे, दोण्ह वि लोगाण चागो त्ति ॥५०८॥ ११/१४
एतस्मिन् गुरुकुले परित्यक्ते प्रोज्झिते, आज्ञा खलु भगवतः परित्यक्तानङ्गीकृता । तस्याश्चाज्ञायाः परित्यागे समुत्सर्गे द्वयोरपि लोकयोस्त्याग इतीहपरलोकयोर्वेकल्यापादनात्॥१४॥ ता न चरणपरिणामे, एयं असमंजसं इहं होति । आसण्णसिद्धियाणं, जीवाण तहा य भणियमिणं ॥५०९॥ ११/१५
तत् तस्मात् न चरणपरिणामेऽभ्यन्तरे तथाविधकर्मक्षयोपशमसमुत्थे एतत् गुरुकुलत्यागादिकम्, असमञ्जसमयुक्तम् इह साधुधर्मे भवति । आसन्नसिद्धिकानां प्रत्यासन्नपरमपदप्राप्तीनां जीवाना भव्यराश्यन्तर्वर्तिनाम् । तथा च भणितमुक्तमेतत् ॥१५॥ नाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते य । धण्णा आवकहाए, गुरुकुलवासं न मुंचंति ॥५१०॥ ११/१६
ज्ञानस्य श्रुतात्मकस्य भवति भागी भाजनं पुरुष इति गम्यते । स्थिरतरको दृढतरको दर्शने सम्यक्त्वे चरित्रे च पूर्वोक्ते । धन्या यावत्कथया यावज्जीवं गुरुकुलवासं न मुञ्चन्ति नोत्सृजन्ति ॥१६॥