SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ___ पूर्वप्रत्यानुसारेणैव लिखितेयं प्रतिः किन्तु लेखकः प्राचीनलिपिज्ञानरहितो दृश्यते । अतोऽत्यन्ताशुद्धिमत्त्वाद् भ्रान्तिजनिकेयं प्रतिः । पाठलेखादिना भ्रमजनायादर्शभूतेयं प्रतिः । ताडपत्रीयझेरोक्षप्रतिना स्पष्टाक्षरबोधाभाव एवास्याः प्रतेरूपयोगोऽभवत् । पञ्चाशक-प्रकरणमूलप्रतिः १. श्रीपट्टननगरस्थ ज्ञानभण्डागारे पा.ता.संपा. ६९-१ क्रमाङ्किता ताडपत्रीया प्रतिः । अस्या ___ उपयोगो मूलग्रन्थशुद्धिकरणाय कृतः ।। २. श्रीजेसलमेरतीर्थे तपागच्छीय ताडपत्रीय ग्रन्थभाण्डागारस्य त.ता.१ क्रमाङ्किता प्रतिरप्युपयुक्ता, लिखितेयं वि. सं. १११५ इति । . हस्तप्रतिगवेषणम् प्रकाशमानायाः टीकायाः शुद्धिकरणाय पट्टनपुर-स्तंभनपुर-भाण्डारकर ग्रन्थालय-पुण्यनगरीलीमडीनगर-ला.द.-कोबा-अमदावाद-ज्ञानमन्दिरादौ अन्यप्रति गवेषिता, संशोधनकार्यशीलमुनिवरा अपि पृष्टा, तथापि प्रयत्नाधिक्यत्वेऽपि यदा न प्राप्ताऽन्या प्रतिः, तदा जेसलमेरभाण्डागारप्राप्तप्रत्याधारेणैव टीका संशोधिता । संशोधनपद्धतिः पञ्चाशकटीकासंशोधने श्रीअभयदेवसूरीश्वररचितटीका बहुश उपयुक्ता, उपयुक्तस्थाने ( ) इति सञ्जितचिह्नमध्यवर्ति तेषां टीकेति ज्ञातव्यम्, उद्धारान्ते च 'अटी.' इति सङ्केतोऽपि न्यस्तः । टीकायां मूलगाथाप्रतीकमान्तरश्लोकञ्च घट्टगुर्वक्षरेण मुद्रितः । तथा ग्रन्थगतश्लोकानां यथाशक्याधारग्रन्थनामान्यपि निरूपितानि । ताडपत्रीयप्रतौ व्याकरणदृष्ट्या केचित् पाठा अशुद्धा इति ज्ञात्वा शुद्धिकृतास्तदुदाहीयते । (१) पञ्चा.क्रम-गाथाक्रमः अशुद्धपाठः शुद्धपाठः १/४० अभिधास्यत अभिधास्ये ३/२७ वन्दनाया वन्दनायाः ३/३३ निरूपितव्या निरूपयितव्या (२) ताडपत्रीयप्रतौ तालव्यशकारस्थाने दन्त्यसकारोऽनेकशो दृश्यन्ते तदपि शुद्धिकृतम् । यथा - पञ्चाशक-गाथाक्रमः- अशुद्धपाठः शुद्धपाठः १/४१ सान्ता शान्तः १/४३ सकासे सकाशे १/४३ सेषः शेषः
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy