________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः सुप्तोत्थितस्य विषयप्रकाशन तथा प्रबुद्धस्यात्मतत्त्वप्रकाशनमिति भावः । 'तत्'तादृशं 'तत्त्वं'आत्मस्वरूपं 'चिरं' अनन्तानन्तभवानन्तरं 'अधिगतं' ज्ञातं सत् 'मा' मां ज्ञानस्वरूपात्मानं मदयति'हर्षयति हर्षपूर्ण करोतीत्यर्थः, अत्रैव दृष्टान्तमाह - 'दरिद्रः इति दरिद्रं दुर्विधं निर्धनं इत्यर्थः, 'सम्प्राप्तं' स्वतयोपस्थितं 'निधानं' निधानात्मकं धनं भूमिस्थाकरादिकं धनं सुवर्णादिरूपं द्रव्यमिव सम्प्राप्तं हि 'धनं' द्रव्यं दरिद्रं मदयतीति व्यक्तं तथेत्याशयस्तादृशं चात्मतत्त्वं प्रतिकलं प्रतिक्षणं समालोक्य'दर्श दर्श'कथमिव' केन प्रकारेण 'आघ्राति' तृप्तिं निरतिशयानन्दं 'अहं' प्रबुद्ध आत्मा 'न गन्ताऽस्मि' न लब्धास्मि किं ? अर्थात् लब्धास्मीति भावः । 'अतः' इत्यात्मतत्त्वप्राप्त्यनन्तरमिति यदात्मतत्त्वप्राप्तिर्भवति तदा निरतिशयानन्दानुभूतिर्भवत्येव तादृशात्मतत्त्वदर्शनस्य नैरन्तर्येण पारम्पर्येण च निरतिशय-शाश्वताखण्डानन्दात्मको मोक्षलाभो ध्रुव इत्याशयः ॥८॥
महासत्त्वाः यदास्वादानन्दान्मुक्त्यै यतन्ते तां महाभिलाषामाह - विवर्तेरस्पृष्टं विशदतममत्यन्तगहनं, महः स्तान्नः स्पष्टं प्रकटितनिजानन्दविभवम् । यदास्वादानन्दादगणितमहाभोगविभवाः, महासत्त्वा मुक्त्यै चिरमिह यतन्ते कृतधियः ॥९॥ शिखरिणीवृत्तम् ।
पद्मप्रभा० "विव' रित्यादि, 'विवरैः' विकल्पैः 'अस्पृष्टं' अतीतं निर्विकल्पकमित्यर्थः, 'विशदतमं' निरावरणत्वादतिस्पष्टं अत्यन्तगहनं' दुरधिगमं तथा 'प्रकटितनिजानन्दविभवं' प्रकटितः-प्रादुष्कृतः निजानन्दस्य विभवः सम्पत्तिर्येन तत् निरतिशयं 'महः' ज्योति: शुद्धात्मतत्त्वमित्यर्थः 'नः' अस्माकं स्पष्टं' आविर्भूतं 'स्तात्' जायतामित्यभिलाषा । तादृशमह एव विशिनष्टि - 'यदास्वादानन्दाद् 'यस्यात्मतत्त्वात्मक स्य महस आस्वादोऽनुभवस्तज्जनितो य आनन्दस्तमपेक्ष्य 'अगणितमहाभोगविभवाः' अगणित: न गणितो महाभोग:-चक्री तस्य विभवः नवनिधानादिसम्पत् यैस्ते । इदृशाश्च ते के इत्याह - 'महासत्त्वाः' अविचलितस्वभावाः 'कृतधियः' सुधियः 'मुक्त्यै' मुक्त्यर्थं 'इह' अस्मॅिल्लोके 'चिरं' दीर्घकालं 'यतन्ते' प्रयस्यन्ति ॥९॥