________________
ॐ ऐं नमः। श्रीहर्षवर्धनोपाध्यायनिबद्धः
अध्यात्मबिन्दुः स्वोपज्ञवृत्तिविभूषिता निश्चयव्यवहारप्ररूपणप्रवणा प्रथमा द्वात्रिंशिका
अनन्तविज्ञानविभूतिशाली, सत्प्रातिहार्याद्भुतभूतिमाली ।
तीर्थान्तरीयानवबुद्धयोगा-गमार्थदेशी जयताज्जिनेन्द्रः ॥
अथातः शुद्धात्मानुभवरसिकानामनेककदागमार्थश्रवण-कुदृष्ट्युपासन-संस्तवनादिक्रियाभासप्रक्रियापर्याप्तात्मतत्त्वविप्रतिपत्तीनां भव्यसत्त्वानामुपकाराय शुद्धात्मस्वरूपप्रतिपादनपटिष्ठाऽध्यात्मबिन्दुप्रथमद्वात्रिंशिकाविवरणं स्पष्टमुपक्रम्यते । तस्य चेदमाद्यं पद्यम्
ब्रूमः किमध्यात्ममहत्त्वमुच्चै
र्यस्मात् परं स्वं च विभिद्य सम्यक् । समूलघातं विनिहत्य घाति
नाभेयभूः केवलमाससाद ॥१॥ व्याख्या : वयम् अध्यात्ममहत्त्वं किं ब्रूमः ? आत्मनि इत्यध्यात्मम्, विभक्त्यर्थे अव्ययीभावः [पा.२।१।६] । आत्मानमधिकृत्य प्रवर्तमानः कर्तृत्वभोक्तृत्वादिधर्मनिरासपुरस्सरः कश्चन विचारविशेषः शुद्धात्मस्वरूपश्रवण-मनन-निदिध्यासरूपोऽपि लक्षणयाऽध्यात्मम् । तस्य महत्त्वं किं ब्रूमः ? यस्मात् अध्यात्मतः । परम् आत्माऽतिरिक्तमखिलपदार्थजातम् । स्वं च आत्मानम् । सम्यक् संशयविपर्ययाऽनध्यवसायापोहपूर्वकम्, संदिग्धस्य विपर्यस्तस्यानध्यवसितस्यार्थक्रियाऽसाधकत्वाद् अज्ञानतः प्रवृत्तानां फलासंवाददर्शनाच्च । विभिद्य अनादिबन्धपर्यायनिरूपणया क्षीरोदकवत् कर्मपुदगलैः समं प्राप्तैकत्वमपि भेदज्ञानबलेन पृथक्त्ववृत्त(त्ति)स्वलक्षणतः पृथग् निर्धार्य । तथा घाति आत्मगुणहन्तृत्वात् समयप्रसिध्दया मोहनीय-ज्ञान-दर्शनावरणान्तरायलक्षणं प्रकृतिचतुष्टयम्। समूलघातं विनिहत्य समूलं हत्वा, 'समूलाकृतजीवेषु हन्कृञग्रहः' [पा.३/४/३६] इति णमुल् । 'कषादिषु यथाविध्यनुप्रयोगः' [पा. ३/४/४६] इति हन्तेरनुप्रयोगः। नाभेरपत्यं नाभेयो भगवान् युगादिदेवस्तस्माद् भवतीति नाभेयभूः प्रथमचक्रवर्ती भरतः । केवलमाससाद केवलज्ञानं लेभे।
१ 'अव्ययं विभक्तिसमीप' इत्यादि सूत्रम् । २ फलविसं० सू० ।