________________
द्वात्रिंशिका] अध्यात्मबिन्दुः
७१ 'ततः' इति तत ईश्वरस्यादेहत्वादकर्तृत्वाद्धेतोः 'तत्प्रेरितो' ईश्वरप्रेरणापरवश आत्मेति प्रस्तावाल्लभ्यते । हन्तेति खेदेऽलीके च कथमेव' इति च प्रश्नकाकुः, नैव कथमपीत्यर्थः 'विचेष्टते' कर्मशरीरादिग्रहणं प्रति व्यापारवान् भवति । यस्य हि प्रेरणं स देही दृष्टः, न च ईश्वरो देही सम्मतः तस्मान्न प्रेरकः, एवं च तथाभ्युपगमोऽज्ञानजनित इति खेदजनकोऽलीकश्चेत्याशयः ॥१८॥ ननु शुद्धस्यात्मनः कथं प्रवृत्तिरित्याशङ्कयन्नाह -
अनाभोगेन वीर्येण, कर्ता देहादिकर्मणाम् ।
भुक्ताहारस्य मांसासृग्रसादिपरिणामवत् ॥१९॥ पद्मप्रभा० अनाभोगेने'त्यादि, इदमिह द्रष्टव्यम् - आत्मनो वीर्यद्वयं आभोगवीर्यमनाभोगवीर्यं च । अभिसन्धिपूर्वकं प्रवृत्तिहेतुराभोगवीर्य, अनभिसन्धितः प्रवृत्तिहेतुस्तु अनाभोगवीर्य, तेनानाभोगेनानभिसंधिजेन वीर्येण सामर्थ्येन कृत्वा कर्ता सम्पादक आत्मेति प्रस्तावात् लभ्यते केषामित्याकाङ्क्षायामाह-'देहादिकर्मणां' देहादीनां तन्निमित्तकर्मणां च 'जीवस्य' आत्मनः कर्मबन्धो देहादिग्रहणं चानभिसन्धिजेन व्यापारेण । ननु अनभिसन्धिजो व्यापारोऽसिद्ध इति चेत्र, तबाह-'भुक्ताहारस्य' भुक्तस्याहारस्यानादे' माँसासृग्रसादिपरिणामवत्' मांसं प्रसिद्धं, असृग्-शोणितं, रसो-वीर्यं भुक्तान्नादेः परिणामविशेषा आदिना मज्जास्थ्यादिः तद्रूपो यः परिणामः तद्वत् यथा भुक्तस्यान्नादेर्मासादिपरिणामोऽनभिसन्धिजो, नाभिसन्धिना मांसादिपरिणाम इति सार्वजनीनमेतत् तथात्मनोऽप्यनभिसन्धिजमेव देहादिकर्तृत्वमिति । तदर्थमीश्वरकल्पना न युज्यते इत्याशयः ॥१९॥
ननु ईश्वरस्यैकस्य कर्तृत्वाभ्युपगमे लाघवं अनन्तानां आत्मनां तत्त्वे च गौरवमिति चेन्न प्रामाणिकगौरवस्य दोषानावहत्वादित्याह -
प्रत्येकं कर्तृतायां स्यान्न चैवं गौरवं किल ।
प्रामाणिकं यत् तद् दुष्ट, नेति क्रोडीकृतं परैः ॥२०॥ पद्मप्रभा० 'प्रत्येकमि'त्यादि, 'प्रत्येकं' पृथग् तस्मिंस्तस्मिन्नात्मनि ‘एवं' उक्तरीत्याऽनाभोगवीर्येण कर्तृत्वस्वीकारे सति 'गौरवं' अनन्तकर्तृत्वकल्पनात्मको बुद्धिव्यायामः 'न च' नैव 'स्यात्' भवेत् 'किले 'ति निश्चये । ननु अनन्तात्मा कर्ता इति तद् गौरवं दुर्निवारमिति चेत् तत्राह - 'प्रामाणिकमि'त्यादि प्रामाणिकं प्रमाणसिद्धं यत्'