SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशिका] अध्यात्मबिन्दुः ४७ णैवेति भावः, तदाह-'कर्तात्मेति श्रुतिः' आत्मा कर्तेति या श्रुतिः - आगमवाक्यं तत् 'साक्षादिति उपादानात्मना इत्यर्थः 'यत्' यतः 'स्वभावक्रियापरा' स्वस्य भावः परिणामः स एव ज्ञानादिरूपा क्रिया तत्कर्तृत्वाभिप्रायात्मिका इति ॥८॥ शुद्धनिश्चयनयेनात्मनः कर्तृत्वं निरूप्याथाशुद्धनिश्चयनयमतेन कर्तृत्वं साधयन्नाह अशुद्धनिश्चयेनाऽयं, कर्ता स्याद् भावकर्मणः । व्यवहाराद् द्रव्यकर्म - कर्तृत्वमपि चेष्यते ॥९॥ पद्मप्रभा० 'अशद्धनिश्चयेने' त्यादि-शुद्धनिश्चयाद्भिन्नो विपरीतोऽशुद्धनिश्चयनयस्तेनाशुद्धनिश्चयनयमतेनेत्यर्थः 'अयमि'ति आत्मा 'कर्ते 'ति जनक: ‘स्यात्' भवेत् कस्येत्याह -'भावकर्मणः' मिथ्यात्वादेः रागादेश्च तत्परिणतिरूपभावकर्मणः न पुनर्द्रव्यकर्मण इत्यर्थः। अत्रार्थे व्यवहारनयो यदिच्छति तद्दर्शयति 'व्यवहारादिति व्यवहारनयमपेक्ष्य' द्रव्यकर्मकर्तृत्वं' ग्रहणयोग्यकार्मणवर्गणात्मकं द्रव्यकर्म तस्य कर्तृत्वं बन्धसाधकत्वमिति अपिः' समुच्चयार्थे अपिचेत्यव्ययसमुदायेन ग्राम-नगर-घटादिकर्तृत्वं समुच्चीयते, न केवलं द्रव्यकर्मकर्तृत्वमिति 'इष्यते' मन्यत इति । इदमत्र हार्दम्आत्मनोऽनन्तज्ञानादिमयमितरनिरपेक्षं स्वाभाविकं शुद्धं स्वरूपमवलोकयन्ती दृष्टिः शुद्धनिश्चयनयः तद्विपरीता त्वशुद्धनिश्चयनयदृष्टिः आत्मनः कर्मबद्धमुपचरितमशुद्धं सांसारिकं स्वरूपमवलोकयति तत्राप्ययं नयो भावकर्मणः प्राधान्यं स्वीकृत्य संसारिजीवे रागादिभावपरिणामदर्शनात् तद्बन्धकत्वमुद्घोषयति। आत्मनोऽशुद्धस्वरूपावलोकनस्वभावत्वादस्य नयस्याशुद्धत्वम् । शुद्धस्वरूपादितरत् भावकर्मभिलिप्तमात्मस्वरूपमपेक्षतेऽयं नयः पूर्वपूर्वकालिकैः कर्मभिलिप्तस्वरूप आत्मैवापूर्वापूर्वभावकर्मणः कर्तृत्वमासादयतीति ध्वनिः ॥९॥ द्रव्यकर्मणो न कर्तृकर्मभावो व्याप्यव्यापकत्वाभावादिति अशुद्धनिश्चयनयमतं निरूपयन्नाह - व्याप्यव्यापकभावो हि, यदिष्टः कर्तृकर्मणोः । तदभावे द्रव्यकर्म-कर्तृत्वं घटते कथम् ॥१०॥ पद्मप्रभा० व्याप्येत्यादि 'व्याप्यव्यापकभावो' अविनाभावसम्बन्धः 'हि' स्फुटार्थे 'यदिति' यस्मात् 'इष्टः' मान्यः, कयोरित्याह-'कर्तृकर्मणोः' सुगम तदभावे'
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy