________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः एतदेव वृत्तान्तरेण विशदयति ---
सर्वे भावा निश्चयेन स्वभावान्
कुर्वन्तीत्थं साधु सिद्धान्ततत्त्वम् । भिन्नद्रव्यीभूतकर्मप्रपञ्चं
जीवः कुर्यात् तत् कथं वस्तुतोऽयम् ॥२२॥ व्याख्या - सर्वे भावा जीवादयः षट् पदार्थाः निश्चयेन स्वभावान् स्वपरिणामान् कुर्वन्ति स्वपरिणामैरेव समं सर्वद्रव्याणां व्याप्य-व्यापकसद्भावात् परभावस्य परेण कर्तुमशक्यत्वात्। कुम्भोत्पत्तौ व्याप्रियमाणः कुम्भकारो हि स्वपरिणामानां ज्ञानेच्छाप्रयत्नानामेव कर्ता न तु घटस्य । कथं तर्हि घटोत्पत्तिरिति चेत् उच्यते-हस्ते उद्यम्यमाने हस्तस्य दण्डोद्यमनवत् हस्तचालनारूपकुलालवीर्यव्यापारमासाद्य मृत्पिण्ड एव घटत्वेन स्वयं परिणमते । तथाहि - कुलालस्तावदिदमस्योपादानमित्यादावुपादानज्ञानेन परिणमति ततो घटं करोमीति चिकीर्षया, ततश्चके मृत्पिण्डारोपण-चक्रभ्रामण-मृत्पिण्डपृथुत्व-सङ्कोचकारिस्ववीर्यव्यापारेणेति योगोपयोगयोरेव कर्तृत्वं सिद्धं न तु घटस्येति । योगोपयोगौ चात्मस्वभावौ । ततः सर्वद्रव्याणां स्वभावकर्तृत्वमेव न तु परभावकर्तृत्वमित्यायातम् । एतदेवाह-इत्थं साधु सिद्धान्ततत्त्वम् इति । ततः किमित्याह-भिन्नद्रव्यीभूतेति ।तत्तस्माद् हेतोः अयंजीवः भिन्नद्रव्यीभूतंजीवद्रव्यात् द्रव्यान्तरभूतं कर्मप्रपञ्चं वस्तुतः कथं कुर्यात्, न कथमपीत्यर्थः । तथाहि - परद्रव्यपरिणाम हि व्याप्य-व्यापकभावेन न तावदयं कुर्यात् तन्मयत्वानुषङ्गात् स्वद्रव्योच्छेदापत्तेश्च, निमित्तनैमित्तिकमात्रभावस्य त्वप्रतिषिद्धत्वादितरेतरनिमित्तमात्रीभवनेन द्वयोरपि परिणामाः। ततो मृदा घटस्यैव स्वेन भावेन स्वस्य भावस्य करणाज्जीवः स्वभावस्यैव कर्ता स्यात्-मृदा पटस्येव स्वेन भावेन परभावस्य कर्तुमशक्यत्वात् पुद्गलपरिणामानां कर्ता न कदाचिदपि स्यादिति निश्चयः। किञ्च, 'स्वभाव'शब्देनात्र परिणाममात्रलक्षणो भावः परिस्पन्दलक्षणा क्रिया चोभयमपि विवक्षितम्, भवनमात्रस्योभयत्राविशेषात् । तत्र भाववन्तः क्रियावन्तश्च जीवपुद्गलाः परिणामाद् भेद-सङ्घाताभ्यां चोत्पद्यमानावतिष्ठमानोच्छिद्यमाना उत्पादव्यय-ध्रौव्यैक्यानुभूतिलक्षणां सत्तामपरित्यजन्तः स्वभाव-विभावरूपतया परिणमन्ति । तत्र जीवानां भेदसङ्घातौ कर्मवपुरादिपुद्गलेभ्योऽवसेयौ । शेषद्रव्याणि भाववन्त्येव परिणामादेवोत्पद्यमानावतिष्ठमानोच्छिद्यमानत्वात् । ततो भिन्नसत्ताकत्वाद् द्रव्यान्तरपरिणामः कालत्रयेऽपि द्रव्याणां न सङ्गच्छत इति भावः ॥२२॥