________________
द्वात्रिंशिका]
अध्यात्मबिन्दुः चैद्रूप्यमेकमपहाय परे किलामी,
यावन्त एव पुरुषेऽत्र लसन्ति भावाः । तान् संप्रपद्य च परत्वधिया समस्ता -
नास्ते तदाऽऽस्रवति किं ननु कर्म नव्यम् ? ॥१६॥ व्याख्या - एकं चेद्रूप्यं चिद्रूपताम् अपहाय वर्जयित्वा चेतनायाः स्वधर्मत्वेन ततो व्यतिरेकस्य कर्तुमशक्यत्वात् । परे किलामी यावन्त एवात्र पुरुषे आत्मनि भावाः राग-द्वेषसुख-दुःखादयः समलाश्चिद्विवर्ता लसन्ति स्फुरन्ति तान् समस्तान् परत्वधिया परभावबुद्ध्या संप्रपद्य अङ्गीकृत्य यदा आस्ते स्वरूपलीनस्तिष्ठति तदा नव्यं कर्म किमास्त्रवति ? अपि तु नेत्यर्थः । अयं भाव:- चेतना ह्यात्मनोऽसाधारणधर्मस्तत एवेतद्रव्यव्यावृत्तिसिद्धेः । सा च दृग्रूपा ज्ञप्तिरूपा च । उभयरूपाया अपि तस्या यथाक्रमं सामान्य-विशेषपरिच्छेदकत्वेन चेतनात्वसामान्यानतिक्रमादविशेषेण ग्रहणम् । अनेकधर्माधारत्वेऽपि चेतनाग्रहणं "प्राधान्येन व्यपदेशा भवन्ति" [
] इति न्यायानुसरणार्थम् । सा च त्रिधा, कर्मचेतनाकर्मफलचेतना-ज्ञानचेतनेति । तत्राऽऽद्ये द्वे कर्मसम्पर्कतो जायमानेऽस्वभावभूते । ज्ञानचेतना तु निरुपरागोपयोगस्वभावा आत्मनः स्वलक्षणभूता स्व-परप्रकाशशालितया स्वपरपरिच्छेत्री तयैव समानजातीयद्रव्यव्यवसायसिद्धः । सा चैकाऽपवरकप्रबोधिताऽनेकप्रदीपप्रकाशेष्विव सम्भूयावस्थितेष्वपि षट्सु द्रव्येषु मत्स्वरूपादप्रच्यवमाना मामेव पृथगवगमयति । तत इदमेव मम रूपं त्रिकालानुयायित्वादिति तया सहैकत्वं प्रपद्य तदितरान् रागादीन् परत्वबुद्ध्याऽध्यवसाय स्वरूपगुप्तसुषुप्तकल्पान्तस्तत्त्ववृत्तितया विषयाननुध्यायत उपरञ्जकाभावादेव बन्धनिरोधः सिद्ध्येत् ॥१६॥ अथ शरीरसम्बन्धेन भासमाना अपि वर्णादयो नात्मस्वलक्षणभूता इति द्योतयति -
शरीरसंसर्गत एव सन्ति
वर्णादयोऽमी निखिलाः पदार्थाः। जाम्बूनदादेरुपधेरिव द्राग
वैशद्यभाजि स्फटिके तरङ्गाः ॥१७॥ व्याख्या - अमी प्रत्यक्षदृश्या वर्णादयो निखिलाः पदार्थाः वर्ण-गन्ध-रस-स्पर्शसंस्थान-संहननादयः शरीरसंसर्गत एव सन्ति । तथाहि - पुद्गलविपाकिकर्मोदयाज्जीवेन सह वपुषः परस्परावगाहलक्षणे सम्बन्धे सत्यपि उपयोगगुणविशिष्टस्यात्मनः स्वलक्षणेनैव समं व्याप्यव्यापकभावसम्बन्धाद् अनलस्यौष्ण्येनेव वर्णादिभिस्तादात्म्याभावात् स्वलक्षणत्वासिद्धौ न नाम