________________
१६
हर्षवर्धनोपाध्यायनिबद्धः
[प्रथमा सुखरूपात्मपरिणामानां व्यवहारेण द्रव्यकर्मोदयापादितेष्टानिष्ट-विषयाणां च भोक्ता तथापि शुद्धनिश्चयत उभयरूपस्यापि भोक्तृ त्वस्याभाव इति । तथा चिदङ्कितम्, द्रव्यगुणानामेकास्तित्वनिर्वृत्तत्वेन स्वतः पृथग्भावाभावात् सर्वकालं चैतन्यमजहदित्यर्थः । तथा चन्द्रकरावदातम् इति समुल्लसच्चन्द्रचन्द्रिकाभरवद् अनुपलभ्यमानमलकलङ्कमात्मस्वरूपं प्रद्योतयन्, शुद्धनयश्चकास्ति प्रकाशते, शुद्ध-नयप्रकाश्यमेतादृगात्मतत्त्वमित्यर्थः ॥७॥
तीर्थप्रवृत्त्यर्थमयं फलेग्रहि
स्त्रिकालविद्भिर्व्यवहार उक्तः । परःपुनस्तत्त्वविनिश्चयाय
नयद्वयात्तं हि जिनेन्द्रदर्शनम् ॥८॥ व्याख्या - त्रिकालविद्भिः सर्वज्ञैः । अयं व्यवहार: तीर्थप्रवृत्त्यर्थं तीर्थं चातुर्वर्ण्यसङ्घःश्रमणप्रधानस्तस्य प्रवृत्तिस्तदर्थम् । फलेग्रहिः फलवान् उक्तः।
अयमर्थः - व्यवहारो हि मोक्षोपायप्रवृत्यङ्गत्वाद् दर्शयितुमवंश्यं तादृगेव । तथाहिनिश्चयेन ह्यात्मनः शरीराद् भेददर्शनेऽमूर्तत्वेन हिंसाऽभावात् त्रस-स्थावराणां भस्मन इव निःशङ्कमुपमर्दनप्रवृत्तेर्भवत्येव बन्धाभावः । व्यवहारनयेन तु क्षीरोदकवच्छरीरेण सह लोलीभावमापन्नस्यात्मनो मूर्तत्वाङ्गीकाराद् य एते एकेन्द्रियादयश्चतुर्दशभूतग्रामास्ते जीवा इति शरीरेण सहाभेदप्रदर्शने शरीरखधे तद्वधस्य कथञ्चिदिष्टत्वाद् भवत्येव प्रत्यवायः। अतस्तत्परिहारार्थं मोक्षोपायप्रज्ञापनमर्हद्देवानां सङ्गच्छते । अन्यथा तद्वैयर्थ्यापत्तेः । तदधिकरणं हि चातुर्वयं क्षयोपशमशक्तिसव्यपेक्षत्वाच्चातुर्वर्ण्यप्रवृत्तेः । किञ्च, बद्धस्पृष्टत्वादीनां भावानां व्यवहारनयेनैव प्रज्ञाप्यमानानां साधुता सङ्गच्छते, निश्चयेन तु निर्लेपत्वादात्मनो निर्विषयतामेवैते आस्तिघ्नुवीरन्। किञ्च, रागादिपरिणामेभ्यः परमार्थतो भेददर्शने तन्मेजासाधनसाम्यमूलकयम-नियमाधुपायप्रदर्शनमपि व्यर्थमेव स्यादिति । व्यवहारनये तु सर्वमपीदं प्रज्ञाप्यमानं सङ्गच्छत इति सुष्ठूक्तम्-'तीर्थप्रवृत्त्यर्थम्' इति। परइति व्यवहारापेक्षया परो निश्चयः । सपुनस्तत्त्वविनिश्चयाय उक्तः । निर्विकारनिरुपाधिदृशि-ज्ञप्तिस्वभावनियतवृत्तिरूपात्मतत्त्वपरिज्ञानं हि निश्चयमन्तरेण न भवतीति स्वसमयप्रवृत्त्यर्थमवश्यं क्रोडीकर्तव्यः । अन्यथाऽनाद्यविद्यावशाद् दृशिज्ञप्तिस्वभावनियतवृत्तिरूपात्मत्वात् प्रच्युतस्य परद्रव्यप्रत्ययमोहरागद्वेषादिभिः भावैरेकत्त्वं गतस्य उदयोदीरणादिवोत्याऽऽवतैविटपिन इव निर्भरं घूर्णमानमूर्तेः प्रावृषि कॉपगापाथःपूरस्येव नितान्तं प्रदेशोपयोगाभ्यां कलुषस्य परसमयीभूतस्यात्मनः श्रद्धान-ज्ञानानुचरणैर्वर्षकोटीतप्ततपोभिरपि १ मजा शुद्धिः । २ वात्या वातसमूहः । ३ कापगा कुत्सिता नदी तस्याः पाथः जलं तस्य पूरस्य इव ।