SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ११४ अध्यात्मबिन्दुः शुद्धस्वरूपप्रकाशिका ॥ चतुर्थी द्वात्रिंशिका ॥ प्रत्यग्ज्योतिर्जयति तदिदं पिष्टकर्मप्रपञ्चं दूरोन्मग्नं घनतरविभावार्णवावर्तवेगात् । प्रोद्यत्तेजः प्रकरदलितध्वान्तकर्माष्टकाष्ठो - त्फुल्लत्काष्ठावदननलिनं किन्नु मार्तण्डबिम्बम् कर्तृत्वादिविकारभारविगमाद् बिभ्रत् सनत् सुस्थतां त्रुट्यद्बन्धचतुष्टयोल्लसदमन्दानन्दसंवर्मितम् । शुद्धं शान्तमनन्तमप्रतिहतं विष्वग् विचित्रोल्लसद् - ज्ञेयाकारकरम्बितं निरुपधि ज्योतिः समुज्जृम्भते सर्वद्रव्यविवर्तचक्रमखिलं यद् बोधवारांनिधा वेकांशस्थमिवोच्चकास्ति कलयच्छुद्धत्वमाकालिकम् । प्रोद्यत्विड्भरलीढविश्वभुवनाभोगं भरादुल्लसच्छान्तं तत्परमात्मतत्त्वमुदितानन्दं समुद्योतते मुक्तेरध्वाऽयमेको भवति हि किल दृग्-ज्ञान-वृत्तत्रयात्मा तां संसूत्र्य स्थिति यो विहरति निखिलान्यस्वसंस्पर्शशून्यः । तद्दर्शी तत्सतत्त्वानुचरणकलनाबद्धकेलिः किलासौ यत् किञ्चित् कर्म कुर्यात् तदखिलमुदितं निश्चितं निर्जरैव अहं कर्ता भोक्तेत्यनवरतमिहाज्ञानमुदभूदियत्कालं शुद्धानुभवनरहस्यं ह्यविदुषाम् । इदानीं सार्वज्ञं वचनममृतादप्यतिरसं चिरं पायपायं निचितमपि तन्नो निरगलत् स्वरूपस्याज्ञानाद् भवति किल कर्तेष पुरुषो ह्यकर्तृत्वं तस्यावगम इह सिद्धं स्वरसतः । ॥१॥ ॥२॥ ॥३॥ ॥४॥ ॥५॥ [ चतुर्थी
SR No.022281
Book TitleAdhyatmabindu
Original Sutra AuthorN/A
AuthorBhavyadarshanvijay
PublisherPadmvijay Ganivar Jain Granthmala Trust
Publication Year
Total Pages122
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy