________________
[३४१
गुणानुमोदनाद्वारे महासतीगुणानुमोदना] अथ महासतीगुणानुमोदनां कर्तुकामः पुरस्तीर्थकरजननीभिष्टुवन्नाह - जणविम्हयजणणीओ जयंति तित्थंकराण जणणीओ । पसर्वति पुत्तरयणं जाओ तेलुक्कसिरितिलयं ॥५५॥
[जनविस्मयजनन्यो जयन्ति तीर्थकराणां जनन्यः ।
प्रसवन्ति पुत्ररत्नं यास्त्रैलोक्यश्रीतिलकम् ॥] व्याख्या - तीर्थं भवाम्बुधेरवतारमार्गं, यद्वा, चतुर्वर्णं श्रीश्रमणसङ्घम्, अथवा, प्रथम-गणधरं कुर्वन्तीति तीर्थंकरा अर्हन्तस्तेषामतीतानागतवर्तमानविहरमाणानां जनन्यो मातरस्तीर्थङ्करजनन्यस्ता जयन्ति सर्वोत्कर्षेण वर्तन्ते । किविशिष्टाः ? 'जणविम्हय त्ति' जनानां त्रिलोकीलोकानां विस्मयाश्चर्यं जनयन्ति यास्तास्तथा । विस्मयकारणमुत्तरार्धेनाह–'पसवंति त्ति' याः पुत्ररत्नं जातावेकवचनं सुतमाणिक्या- 10 नीति, प्रसवन्ति जनयन्ति। किंविशिष्टम् ? 'तेलुक्क त्ति' त्रैलोक्यस्य स्वर्भूर्भुवो रूपस्य श्रीलक्ष्मीस्तस्याः शिरस्तत्तथा सिद्धिपदमिति भावः तत्र तिलकं मण्डनं यदुक्तमागमे-"नमो त्थु ते रयणकुक्खिधारिए । नमो त्थु ते जगपईवदाइए" ॥[ ] इत्यादि ॥५५॥ अथ गाथात्रयेण सतीनाममन्त्राक्षरैरात्मानं पवित्रयन्नाह ...
15 सीयादेवी सुलसा राइमई मयणरेह दमयंती । अज्जा चंदणबाला मणोरमा तह विलासवई ॥५६॥ अंजणासुंदरी चेव नम्मयासुंदरी सिवा । धारिणी चिल्लणादेवी पभावई कलावई ॥५७॥ रेवई देवई जिट्ठा सुजिट्ठा पउमावई । नंदा भद्दा सुभद्दा य रिसिदत्ता मिगावई ॥५८॥ [सीतादेवी सुलसा राजीमती मदनरेखा दमयन्ती ।
आर्या चन्दनबाला मनोरमा तथा विलासवती ॥ १. नमोस्तु ते रत्नकुक्षिधारिके ! नमोऽस्तु ते जगत्प्रदीपदायिके ! ।
15