SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ गुणानुमोदनाद्वारे करकण्डुकथा ] नाम्नाऽमुनैव विख्यातो वर्धमानः क्रमादसौ । प्रपेदे यौवनं नागपोतः कलभतामिव ॥७३॥ अन्यदा तद्वने कायचिन्तार्थं व्रतिनावुभौ । आगतौ लघुमाचष्ट स्थिरधीः स्थविरस्तयोः ||७४|| धीमन् ! वंशः प्रवर्धिष्णुर्नवपर्वाऽस्ति योऽग्रतः । स्वग्राहकस्य भविता दशपर्वा स राज्यदः ॥७५॥ तद्वाक्यं शुश्रुवे स्थविरस्तयोः वृक्षान्तरेण करकण्डुना । बटुनैकेन चोत्खन्य मूलाद् वंशस्त्वखन्यत ॥ ७६ ॥ दृष्ट्वा च करकण्डुस्तमाच्छिद्याऽऽदत्त तत्करात् । मद्भूमेर्वंशमादाय क्व गन्तासीति विब्रुवन् ? ॥७७॥ राजाज्ञादानपूर्वं तं धृत्वाथ करणेऽनयत् । विप्रोऽधिकारिणामन्यायिनं चाकथयत् तथा ॥७८॥ साक्षेपमूचिरे ते तं कथं रे मलिन ! त्वया ! विप्रादाच्छेदि वंशोऽयमस्मै प्रत्यर्प्यतां द्रुतम् ॥७९॥ सोऽब्रवीत् किं मुधा दानीं स्मशानस्य ददाम्यहम् । तदेनं तद्भवं वंशं विप्रचौराय नार्पये ॥८०॥ अथाधिकारिणः प्रोचुस्तथाप्यस्मद्गिराऽर्पय । स प्राहान्यान् प्रयच्छामि म्रियमाणोऽप्यमुं न तु ॥८१॥ प्रोचुरमुना राज्यं किं ते शठ ! भविष्यति । सोऽब्रवीदेवमेवैतद् ‘नान्यथा महतां गिरः ' ॥८२॥ हसन्तस्ते पुनः प्रोचुर्यदा ते राज्यमेधते । यष्टेरस्याः पदे ग्राममस्मै देया द्विजाय तत् ॥ ८३ ॥ ओमित्युदीर्य करणात् करकण्डू रयादयात् । विलक्षस्तु द्विजः स्थानं तद्वधार्थं समुद्यतः ॥८४॥ १. ग. घ. र्थममीमिलत् । ३२७ ] 5 10 15 220
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy