SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ [३२० [विवेकमञ्जरी मुक्तर्षिलिङ्गः सोऽवात्सीद्वेश्यावेश्मनि चिन्तयन् । दीक्षानिषेधिकावाचं देवतया जिनस्य च ॥२४॥ भोगान् सह तयाऽभुङ्क्त सोऽन्वहं च जनान् दश । प्रबोध्य भव्यान् दीक्षार्थं प्रैषीदुपजिनेश्वरम् ॥२५॥ -- क्षीणेऽन्यदा भोगफले तस्य बोधयतः सतः । नवाबुधन् जनाष्टक्कजातीयो दशमो न तु ॥२६॥ तस्मिन्नबुध्यमाने सा वेश्या रसवती कृताम् । आचख्यौ नन्दिषेणाय समयज्ञा मुहर्मुहुः ॥२७॥ सोऽपूर्णाभिग्रहो भोक्तुं नोत्तस्थौ किन्तु सादरम् । तं टक्कं बोधयन्नस्थाद् गीभिर्विधभङ्गिभिः ॥२८॥ तदा चोवाच तं वेश्या प्राक्सिद्धान्नं विरस्यभूत् । भूयो निष्पन्नमस्त्यन्नं किं विलम्बयसि प्रभो ! ॥२९।। नन्दिषेणोऽप्युवाचैतां बोधितो दशमो न हि । दशमोऽद्याहमेवातः प्रव्रजिष्यामि भामिनि ! ॥३०॥ इत्युक्त्वा नन्दिषेणः स्वं भुक्ताभोगफलं विदन् । निर्गत्य स्वामिनः पार्श्वे प्रव्रज्यां पुनराददे ॥३१॥ आलोच्य दुष्कर्म तदेतदुच्चैः शमी समीपे जिनपुङ्गवस्य । स नन्दिषेणो मुनिरायुषोऽन्ते समाधिना देवभुवं जगाम ॥३२॥ 15 ॥ इति श्रीनन्दिषेणकथा ॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy