SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४८] [विवेकमञ्जरी 10 मनोरथशताहूतप्रसूतव्रतकर्मभिः । दुर्लभस्तात लब्धोऽसि त्वमुदुम्बरपुष्पवत् ॥५७।। तन्नश्चिरेण संपूर्णमनोरथमहारथम् । किमीदृग्वाग्घनाघातैर्युक्तं भक्तुं तवानघ ! ? ॥५८॥ ययाचिरे चिरेणैता रूपाद्वैताङ्गयष्टयः । अष्ट याः कन्यकास्तुभ्यं त्यजस्येताः कुतः सुत ! ? ॥५९।। स्वसङ्गसुभगम्मन्याः कन्याः परिणयन्निमाः । कुतूहलं श्रुतोलूलुरावयोः पूरयाऽऽवयोः ॥६०|| आशानामिव चैतासामन्तश्चन्द्र इव स्फुरन् । कलावन्नावयोर्नेत्रकुमुदानां मुदं कुरु" ॥६१॥ श्रुत्वा पित्रोरिमां वाचमचलव्रतनिश्चयः । उचितज्ञः कुमारोऽयमभ्यधाद् मधुरं वचः ॥६२॥ "तावदाचर्यत ब्रह्मव्रताय नियमो मया। कुतूहलाय वां कार्यं पाणिग्रहणमप्यदः ॥६३॥ विवाहस्य द्वितीयेऽह्नि ग्रहीष्यामि पुनव्रतम् । क्षेपं मूर्धन्यवात्सल्याद् नाहं भवदवानले ॥६४॥ आसां मृगीदृशां प्रेमस्थेमसंबन्धबन्धने । पतित्वेन पतित्वाऽसौ क्व मोक्षाय यतिष्यते ?" ॥६५॥ इत्यालोच्य मिथस्ताभ्यां पितृभ्यां तन्मतं वचः । अकारि च मुदा पाणिपीडनोपक्रमक्रमः ॥६६॥ युग्मम् ।। अथ जम्बूकुमारेण ज्ञापिते स्वव्रतोद्यमे । पितॄन् किङ्कार्यतामूढानाहुस्तानिति कन्यकाः ॥६७॥ इहापि परलोकेऽपि जम्बूस्वामी गतिः स नः । पद्मश्रियामिवोष्णांशुर्विद्युतामिव वाम्बुदः ॥६८॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy