SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [१९५ 10 गुणानुमोदनाद्वारे प्रसन्नचन्द्रराजर्षिकथा] मत्सूनोः क्षीरकण्ठस्य तैः सर्वैः पापकर्मभिः । राज्यमाच्छेत्तुमारेभे धिक् तान् विश्वस्तघातकान् ॥३०॥ जीवितेनामुना किं मे तपसा भूयसा च किम् । कर्णातिथिरभूदात्माङ्गभुवो यत्पराभवः ? ॥३१।। तत्राहमभविष्यं चेत् तदा तेषां दुरात्मनाम् । अकरिष्यं नवनवैर्निग्रहैरनुशासनम् ॥३२॥ चरणस्खलनादेवमन्तःसंसारचत्वरम् । राजषिश्चलितः क्रोधभूतेनाभूदनीदृशः" ॥३३॥ इहान्तरे नरेन्द्रोऽपि समायातः शमीश्वरम् । दृष्ट्वा तं सहसोत्तीर्य गजाद् भक्त्या नमोऽकरोत् ॥३४॥ उद्बाहुमेकपादस्थं तं दृष्ट्वाऽऽतापनापरम् । . अन्वमोदिष्ट शुद्धात्मा राजा राजगृहेश्वरः ॥३५।। राजर्षेस्तस्य तपसामुत्कर्षं तमनुस्मरन् । पर्षदि स्वामिनः प्राप पञ्चाभिगमनेन सः ॥३६॥ प्रभुं प्रणम्य पञ्चाङ्गं यथास्थानं निषद्य च । प्राप्य चावसरं राजा पप्रच्छेति कृताञ्जलिः ॥३७॥ ध्यानस्थ: समये यत्र प्रसन्नर्षिर्मयैक्ष्यत । तत्रैव चेद् विपद्येत तत्कामासादयेद् गतिम् ? ॥३८॥ स्वाम्यूचे समये तत्राप्रतिष्ठानं व्रजेदयम् । राजा दध्यौ गतिः केयमस्योग्रतपसोऽपि हा ! ? ॥३९॥ नृपो भूयोऽपि पप्रच्छ समयेऽस्मिन्महामुनिः । स कालं यदि कुर्वीत कां लभेत ततो गतिम् ? ॥४०॥ प्रभुरूचेऽस्ति योग्योऽयमनुत्तरगतेनुप ! । राजापीति जगौ नाथ ! किमियं व्याकृतिद्विधा ? ॥४१॥ 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy