SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ [१९३ गुणानुमोदनाद्वारे प्रसन्नचन्द्रराजर्षिकथा ] "जन्तुभिः पतितैरस्मिन्नगाधे भवनीरधौ। कथञ्चिद् मानुषं जन्म प्राप्यते यानपात्रवत् ॥६॥ प्राप्यापि तरकाण्डं तद् गुरुं निर्यामकं विना । विना चारित्रमीहन्ते नानुकूलं किमप्यमी ॥७॥ इदं वारितदन्तादिभारमप्यङ्गवाहनम् । मृत्युभ्रष्टिं समारोप्य जरावात्या विनाशयेत् ॥८॥ तद् यावद् न जरावात्या मृत्युभ्रष्टिश्च न क्वचित् । तावच्चारित्रमादाय परं पारं प्रयात भोः !" ॥९॥ श्रुत्वेति देशनां सद्यो जातवैराग्यवैभवः । राजा व्रतमयाचिष्ट वीरं विरचिताञ्जलिः ॥१०॥ प्रतिबन्धं कृथा मेति नाथादेशादसावथ । गत्वा पुरे सुतं बालमपि राज्ये न्यवेशयत् ॥११॥ सुतेन सह साम्राज्यधुरामारोप्य मन्त्रिषु । स्वयं व्रतधुरां धीरो वीरोपज्ञां बभार सः ॥१२॥ तस्मादथ महावीरस्तेन राजर्षिणा सह । विहरन्नन्यदा प्राप पुरं राजगृहाभिधम् ॥१३॥ वैभारोदयशैले श्रीजिनेश्वरदिनेश्वरः । जगतां जनितश्रेयोवासरः समवासरत् ॥१४॥ शैलपालात् तदाकर्ण्य राजा राजगृहेश्वरः । प्रचचाल प्रभुं नन्तुं सर्वा सपरिच्छदः ॥१५॥ रङ्गदुत्तुङ्गमातङ्गमदामोदेन मेदिनीम् । वासयन् वासवः क्षोणेनगराद् निरगादयम् ॥१६॥ राज्ञोऽग्रसैनिकौ तस्य नाम्ना सुमुख-दुर्मुखौ । एकांहिणा तस्थिवांसं मुक्तौ गन्तुमिवोत्सुकम् ॥१७॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy