________________
गुणानुमोदनाद्वारे दशार्णभद्रकथा ]
इत्यमात्यादिकान् सर्वान् समुदीर्य विसृज्य च । प्रीतचेता जगामान्तः पुरं पृथ्वीपुरन्दरः ||६|| वन्दिष्ये भक्तिभागेवं स्तोष्ये चैवं प्रगे प्रभुम् । कथञ्चिदिति चिन्तावान् यामिनीं तामनीनयत् ॥७॥ वावनुदितेऽप्येष समाहूय च भूयसः । अदिशन्नगराध्यक्षप्रभृतीनिति भूपतिः ॥८॥
मदीयसदनस्वामिसदसोरन्तरा चिरात् । कार्यं यानाय मे मुक्तदूषणं मार्गभूषणम् ॥९॥ इतश्च तत्र भगवानाययौ नगराद् बहिः । त्रयेऽपि च सुराश्चक्रुर्विशालं देशनासदः ॥१०॥ शासनं नृपतेस्तेऽपि तेनिरे तन्नियोगिनः । राज्ञां हि वचसा सिद्धिर्मनसा मरुतामिव ॥ ११ ॥ कलिता कुङ्कुमाभ्भोभिः सुमनोभिश्च तत्र भूः । सन्ध्यारागवती ज्योतिष्मतीव द्यौरराजत ॥ १२ ॥ मुक्तावचूलैरुल्लोचाः स्वर्णस्तम्भैर्विरेजिरे । सबलाकाः सगाङ्गेयधारा धाराधरा इव ॥१३॥ सुप्रपञ्चा विरेजुश्च मञ्चास्तोरणदामभिः । शत्रुभङ्गा इवोत्तुङ्गाहङ्कारभरतो मिथः ||१४|| पदे पदे स्वर्णकुम्भैरशोभन्त च मण्डपाः । स्थिरभानूनि सानूनि लोकालोकगिरेरिव ॥१५॥ घण्टापथेषु हट्टानि चञ्चलैः केतनाञ्चलैः । मञ्चस्थशालभञ्जीनां न्युञ्छनानीव तेनिरे ॥१६॥ शुभ्रेषु ताडितोल्लोचपटेषु प्रतिमण्डपम् । दधुर्धूपघटीधूमावर्ताः पञ्चमपत्रताम् ॥१७॥
[ १८७
5
10
15
20