________________
[९७
गुणानुमोदनाद्वारे स्थूलभद्रकथा]
शकटालमहामात्यात्ययात् प्रभृति सोऽप्यभूत् । भट्टो वरचिर्भूपसेवावसरतत्परः ॥६०॥ अन्यदा नन्दभूपालः शकटालस्य संस्मरन् । सदसि श्रीयकामात्यमित्युवाच सगद्गदम् ॥६१॥ भक्तिमान् शक्तिमान् मन्त्री शकटालो ममाभवत् । दिवस्पतेरिव प्राज्यप्रज्ञोपेतो बृहस्पतिः ॥६२॥ एवमेव विपन्नोऽसौ दैवादथ करोमि किम् ? । मन्ये शून्यमिवास्थानमहं तेन विनात्मनः ॥६३।। उवाच श्रीयकोऽप्येवमिह किं देव ! कुर्महे? । इदं वरसचिः सर्वं पापं व्यधित मद्यपः ॥६४॥ सत्यमेष सुरां भट्टः पिबतीति नृपोदिते । । श्वोऽमुं दर्शयितास्मीति श्रीयकः प्रत्यवोचत ॥६५।। प्रातः सोऽथ सदस्यानां पद्ममेकैकमार्पयत् । तस्मै भट्टाय मदनफलाम्भोभावितं पुनः ॥६६॥ भट्टः सोप्यनयद् घ्रातुं घ्राणाग्रे पङ्कजं निजम् । चन्द्रहाससुरां रात्रिपीतां सद्यो ववाम च ॥६७।। सर्वैराक्रुश्यमाणोऽथ निर्ययौ सदसो द्विजः । विप्रेभ्यश्च सुरापानप्रायश्चित्तमयाचत ॥६८॥ तापितत्रपुणः पानमेतस्मै ते न्यवेदयन् ।
तदाचर्य विपेदेऽसावमोघास्त्रं हि धीः सताम् ॥६९॥ $स्थूलभद्रोऽपि सम्भूतिविजयाचार्यसन्निधौ ।
अपालयद् व्रतं पारदृश्वा विश्वागमाम्बुधः ॥७०॥ प्रावृष्यथ गुरुं नत्वाऽभ्यगृह्णन् यतयः क्र मात् । सिहं दृग्विषसौक:कूपेष्वनशनां स्थितिम् ॥७१।।