________________
[९१
गुणानुमोदनाद्वारे स्थूलभद्रवर्णनम्] .
अथ स्थूलभद्रमुनिसुभटचारभटी प्रकटीकुर्वन्नाह - उब्भडवेसा वेसा सा कोसा तस्स थूलभद्दस्स । किं कुणइ जस्स न मणं मणं पि धीरत्तणं मुअइ ? ॥३३॥
[उद्भववेषा वेश्या सा कोशा तस्य स्थूलभद्रस्य । किं करोति यस्य मनो मनागपि धीरत्वं न मुञ्चति ? |]
5 पाप न मुञ्चात ? ॥] व्याख्या - तस्य जगद्विदितमहिम्नः स्थूलभद्रस्य शकटालसुतमहामुनेः सा 'कोसा' कोशानाम्नी 'वेसा' वेश्या 'उब्भडवेसा' उद्भटः स्फार: कोटीरहारकेयूरकर्णपूरतिलकताडङ्कचीरमजीरमेखलाकनकश्रृङ्खलावलयाङ्गुलीयकाद्यशेषो वेषो मण्डनं यस्याः सा तथा, 'किं कुणइ' किं करोति, न किमपीति भावः । यस्य किम् ? 'जस्स मणं' यस्य मनश्चित्तं 'मणं पि' मनागपि लेशमात्रमपि 'न धीरत्तणं 10 मुयइ'न धीरत्वं न धैर्य मुञ्चति । यतः -
"विषयगणः कापुरुषं करोति वशवर्तिनं न सत्पुरुषम् ।।
बध्नाति मशकमेव हि लूतातन्तुर्न मत्तेभम्" ॥ [ ] अथ तमेव भक्तिभरतरलतया पुरःस्थमिव पश्यन्नुपश्लोकयति -
जं दुक्करदुक्करकारउ त्ति भणिओ सि थूलभद्द ! तुमं । 15 मयणभडवायभंजण ! तं छज्जइ तुज्झ गुरुवयणं ॥३४॥ [यद् दुष्करदुष्करकारक इति भणितोऽसि स्थूलभद्र ! त्वम् ।
मदनभटवादभञ्जन ! तद् राजते तव गुरुवचनम् ॥] व्याख्या । हे स्थूलभद्र ! 'जं' यत् 'तुम' त्वं 'भणिओ सि' भणितोऽसि । किम् ? 'दुक्करदुक्करकारउ त्ति' दुष्करदुष्करकारकेति । 'मयणभडवायमंजण' मद- 20 नस्य मन्मथस्य भटवादः सुरासुरनरेश्ववरविजयरूपा चारभटीमदनभटवादः तं भनक्ति विसूत्रयतीति स तथा तस्य सम्बोधनं हे मदनभटवादभञ्जन ! 'तं' तद् ‘गुरुवयणं' गुरोः श्रीविजयसम्भूतिनाम्नो वचनं गुरुवचनं पूर्वोक्तम्, यद्वा, गुरु सिंहगुहादृग्विषाहिकूपोपकण्ठकृतस्थितिषु यतिषुि दुष्करकारकेतिस्वागतवाक्यातिरेकेण