SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ राजगृहं नगरं मगधो देशः चम्पानगरी अङ्गदेशः तथा तामलिप्ती नगरी वङ्गा जनपदः काञ्चनपुरं नगरं कलिङ्गदेशः वाणारसी नगरी काशयो देशाः साकेत नगरं कोशला जनपद: गजपुरं नगरं कुरवो देशः सौरिकं नगरं कुशाों देशः काम्पिल्यं नगरं पाञ्चालो देशः अहिच्छत्रा नगरी जङ्गलो देशः द्वारवती नगरी सुराष्ट्रो देशः मिथिला नगरी विदेहा जनपदः वत्सा देशः कौशाम्बी नगरी नन्दिपुरं नगरं शण्डिल्यो शाण्डिल्या वा देशःभहिलपुर नगरं मलयादेशः वैराटो देशो बत्सा राजधानी, अन्ये तु वत्सा देशो वैराटं पुरं नगरमित्याहुः, वरुणानगरं अच्छादेशः, अन्ये तु वरुणेपु अच्छपुरीत्याहुः, तथा मृत्तिकावती नगरी दशार्णो देशः शुक्तिमती नगरी चेदयो देशः वीतभयं नगरं सिन्धुसौवीरा जनपदः मथुरा नगरी सूरसेनाख्यो देशः पापा नगरी भङ्गयो देशः मासपुरी नगरी वों देशः, अन्ये त्वाहःचेदिषु सौक्तिकावती वीतभयं सिन्धुषु सौवीरेषु मथुरा सूरसेनेषु पापाः भङ्गिषु मासपुरीवट्टेति, तदतिव्यवहृतं, परं बहुश्रुतसंप्रदायः प्रमाणं, तथा श्रावस्ती नगरी कुणालादेशः कोटीवर्ष नगरं लाढादेशः श्वेतम्बिका नगरी केकयजनपदस्याध, एतावदर्धषड्विंशतिजनपदात्मकं क्षेत्र. मार्य भणितं, कुत इत्याह-'जत्थुप्पत्ती'त्यादि, यस्मादत्र एतेष्वर्धषड्विंशतिसङ्ख्येषु जनपदेषुत्पत्तिर्जिनानां-तीर्थकराणां चक्रिणां-चक्रवर्तिनां रामाणां-बलदेवानां कृष्णानां वासुदेवानां च तत आर्य, एतेन क्षेत्रस्यार्यानार्यव्यवस्था दर्शिता-यत्र तीर्थकरादीनामुत्पत्तिस्तदार्य शेषमनार्यमिति, आवश्यकचूर्णी पुनरित्थमार्यानार्यव्यवस्था उक्ता-"जेसु केसुवि पएसेसु मिहुणगादिपइडिएसु हकारांइया नीई परूढा 'ते आरिया, सेसा अणायरिया" इति, एते च प्रत्यासत्स्या भरतक्षेत्रवर्तिन एवार्या उक्ताः, उपलक्षणत्वाषामन्येऽपि महाविदेहान्तर्वर्तिविजयमध्यमखण्डादिष्वमी बहवो द्रष्टव्या इति २७५ ॥ ८७॥ ८८ ॥ ८९ ॥५०॥ ९१ ॥ ९२ ॥ इदानीं 'सिद्धेगत्तीसगुण'त्ति षट्सप्तत्यधिकदिशततमं द्वारमाह मव दरिसणंमि ९ चत्तारि आउए ४ पंच आइमे अंते ५ । सेसे दो दो भेया ८ खीणमिलावण इगतीसं ॥९३ ॥ पडिसेहण संठाणे य वन्नगंधरसफासवेए य । पण ५ पण ५ दु२ पण ५४ ८तिहा एगतीसमकाय १ ऽसंग २ऽकहा ३ ॥९४ ॥ दर्शने-दर्शनावरणीये कर्मणि चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनावरणनिद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानर्धिलक्षणा नव भेदाः तथाऽऽयुषि नारकतिर्यनरामरायुर्लक्षणाश्चत्वारः तथाऽऽदिमे-ज्ञानावरणीये मतिश्रुतावधिमनःपर्यवकेवलज्ञानावरणीयस्वरूपाः पञ्च अन्येऽप्यन्तरायाख्ये कर्मणि दानलाभभोगोपभोगवीर्यान्तरायरूपाः पञ्चैव भेदाः, शेषे च कर्मचतुष्के प्रत्येक द्वौ द्वौ भेदो, तत्र वेदनीये सावासातात्मको मोहनीय दर्शनमोहनीयचारित्रमोहनीयलक्षणो नामकर्मणि शुभनामाशुभनामको गोत्रे चोचैर्गोत्रनीचैर्गोत्रामिधौ भेदों भवत इति, तदेवमेते सर्वेऽपि भेदाः क्षीणामिलापेन-क्षीणशब्दविशेषितत्वेन प्रोचार्यमाणा एकत्रिंशत्सङ्ख्याः सिद्धानां गुणा भवन्ति, क्षीणचक्षुर्दर्शनावरण इत्यादिकश्चामिलापः कार्यः॥ ९३ ॥ अथवा प्रकारान्तरेजकत्रिंशत्सिगुणानाह-'पडिसेहेत्यादि, प्रतिषेधेननिषेधेन संस्थानवर्णगन्धरसस्पर्शवेदानां क्रमेण पञ्चपञ्चद्विपश्चाष्टत्रिभेदानां तथा अकायासङ्गारुहपदत्रितयेन चैकत्रिशसिद्धगुणा भवन्ति, तत्र संतिष्ठन्ते एमिरिति संस्थानानि-आकाराः, तानि च पश्च परिमण्डलवृत्तव्यस्रचतुरस्रायतभेदात्, तत्र परिमण्डलं संस्थानं बहिवृत्तवावस्थितप्रदेशजनितमन्तःशुषिरं यथा वलयस्य, तदेवान्तः पूर्ण वृत्तं यथा दर्पणस्य, त्र्यनं-त्रिकोणं यथा शृङ्गाटकस्य, चतुरस्त्रंचतुष्कोणं यथा स्तम्भाधारकुम्भिकायाः, आयतं-दीर्ष यथा दण्डस्य, धनप्रतरादिप्रतिभेदव्याख्या च बृहदुत्तराध्ययनटीकादिभ्योऽबसेया, तथा वर्णाः पञ्च श्वेतपीतरक्तनीलकालभेदात् , गन्धो द्विधा-सुरभीतरभेदात् , रसाः पञ्च तिक्तकटुकषायाम्छमधुरभेदात्, स्पर्शा अष्टौ गुरुलघुमृदुकर्कशशीतोष्णस्निग्धरूक्षभेदात्, वेदात्रयः स्त्रीपुंनपुंसकभेदात् , तथा सिद्धा अकाया-औदारिकादिकायपश्चकविप्रमुक्ताः तेषां सिद्धत्वप्रथमसमय एव सर्वात्मना त्यक्तत्वात् , तथा असङ्गा-बाह्याभ्यन्तरसङ्गरहितत्वात् , तथा अरुहा-न रोहन्ति भूयः संसारे समुत्पद्यन्ते इत्यरुहाः, संसारकारणानां कर्मणां निर्मूलकाषंकषितत्वात् , उक्तं च-"दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ १॥" तदेवमष्टाविंशतिसङ्ख्यानां संस्थानादीनां निषेधादकायत्वासङ्गत्वारुहत्वविधानाच सिद्धानामेकत्रिंशद्गुणा भवन्ति । संस्थानाद्यभावाकायत्वादिसद्भावौ च सिद्धानां सुप्रसिद्धावेव, तथा चाचाराने-"से न दीहे न वट्टे न तसे न चउरंसे न परिमंडले न किण्हे न नीले न लोहिए न हालिदे न सुक्किले न सुब्भिगंधे न दुब्भिगंधे न तित्ते न कडुए न कसाए न अंबिले न महुरे न कक्खडे न मउए न गरुए न लहुए न सीए न उण्हे न निद्धेन लुक्खे न काए न संगे न रुह न इत्थीए न पुरिसे न नपुंसे" इत्यादि, एतच्च सिद्धगुणप्रतिपादकद्वारं प्रकृष्टमङ्गलभूतं शास्त्रस्य शिष्यप्रशिष्यादिवंशगतत्वेनाव्यवच्छिचिर्भूयादिति अन्तमङ्गलत्वेन पर्यन्ते सूत्रकारेणोपन्यस्तमिति २७६॥ ९३ ॥ ९४ ॥ तदेवं व्याख्यातानि षट्सप्तत्यधिकद्विशतसङ्ग्यानि द्वाराणि, तव्याख्यानाच समर्थितः समग्रोऽप्ययं प्रन्थः ॥ सांप्रतं प्रस्तुतप्रकरणकर्ता निजान्वयप्रकटनपूर्वकं स्वकीयं नाम प्रदर्शयमेतत्प्रकरणे कारणमात्मनोऽनुद्धतत्वं च प्रतिपादयितुमाह धम्मधुरधरणमहावराहजिणचंदसूरिसिस्साणं । सिरिअम्मएवसूरीण पायपंकयपराएहि ॥ ९५ ॥ सिरिविजयसेणगणहरकणिट्ठजसदेवसूरिजिडेहिं । सूरिनेमिचंदसूरिहिं सविणयं सिस्सभणिएहिं ॥९६ ॥ समयरयणायराओ रयणाणं पिव समत्थदाराई । निउणनिहालणपुवं गहिर संजत्ति 298
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy