________________
लक्षप्रमाणयुक्ता दश योजनान्युच्छ्रिता-उद्विद्धाः, तथा चतसृषु दिक्षु नानामणिमयस्तम्भसंनिविष्टैरुतुङ्गैतोरणैः पूर्वादिदिक्क्रमेणाशोकसप्तच्छदचम्पकचूतवनैश्च युक्ताः-परिक्षिप्ताः । एवं शेषाजनगिरिसम्बन्धिनीनामपि पुष्करिणीनां वाच्यं । तासां मध्ये-बहुमध्यदेशभागे सर्वात्मना स्फटिकमया दधिमुखनामानो महीधराः-पर्वताः सन्ति, ते च दुग्धदधिवत् सितः-श्वेतो वर्ण:-कान्तियेषां ते तथा. अशोत्प्रेष्यन्ते-पुष्करिणीनां-वापीनां ये कल्लोला:-समुल्लसन्तस्तरङ्गास्तेषां यदाहननं-परस्परं प्रतिस्फालनं तत्समुद्भूताः फेनपिण्डा इव । एते दधिमखपर्वताः सर्वेऽपि चतुःषष्टियोजनसहस्राण्युच्छ्रिता दश योजनसहस्राणि विस्तीर्णाः एक योजनसहस्रमधोऽवगाढाः उपर्यधश्च सर्वत्र समाः अत एव पल्यङ्कसंस्थानसंस्थिताः । तेष्वपि दधिमुखपर्वतेषु रुन्द्राणि-विशालानि जिनमन्दिराणि-सिद्धायतनानि वक्तव्यानि, यथाऽजनगिरिशिखरेषु अखनपर्वतोपरिवर्तिसिद्धायतमवक्तव्यतात्रापि वक्तव्येति भावः, तथैतासामेव वापीनामपान्तरालेषु द्वौ द्वौ पर्वतो स्ता तत्स्वरूपमाह-'ते'इत्यादि गाथात्रयं, पूर्वाचनगिरेर्विदिक्षु व्यवस्थिता द्वयोर्द्वयोर्वाप्योरन्तराले बहिःकोणयोः प्रत्यासत्तौ प्रत्येक पर्वतद्वितयभावादष्टौ रतिकरनामानः पर्वताः सन्ति, ते च 'पद्मरागाभाः' पद्मरागः-शोणमणिविशेषस्तद्वदाभा-प्रभा येषां ते तथा, अत उत्प्रेक्ष्यन्ते-उपरिस्थिताः-तदुपरि वर्तमाना ये जिनेन्द्राः-शाश्वतप्रतिमास्तेषां यत् स्नानं-कुङ्कुमजलं तत्संपर्कतः पाटला इव, सर्वेऽपि चैते रतिकराः प्रकामकोमलस्पर्शाः तथा सुरपतिसमूहकृतावासाः दश योजनसहस्राण्युच्छ्रिता गव्यूतसहस्र-सार्धयोजनशतद्वयमुद्विद्धाः उच्चत्वसमानविस्तरा दशयोजनसहस्रविस्तीर्णा इत्यर्थः सर्वतः समा झल्लरीसंस्थानसंस्थिता इति, तेष्वपि रतिकरेषु यथोक्तमानानि पूर्वोक्तप्रमाणानि जिनभवनानि ज्ञेयानि, तदेवमुक्ता पूर्वाजनगिरिवक्तव्यता, एतदनुसारेण च शेषदिगजनगिरीणामपि सर्व वाच्यं, नवरं पुष्करिणीनां नामसु विशेषः, तमेवाह-'दाहिणे'त्यादि गाथाचतुष्कं, दक्षिणस्यां दिशि दक्षिणाने इत्यर्थः- पूर्वस्यां दिशि भद्रा वापी दक्षिणस्यां दिशि विशाला अपरस्यां दिशि कुमुदा उत्तरस्यां पुण्डरीकिणी, एताश्च सर्वा अपि मणिमयतोरणारामरमणीयाः। तथा पश्चिमाखनगिर पूर्वस्यां दिशि नन्दिषणा वापी दक्षिणस्याममोघा अपरस्यां गोस्तूभा उत्तरस्यां सुदर्शना तथोत्तराखनगिरौ पूर्वस्यां दिशि विजया दक्षिणस्यां वैजयन्ती अपरस्यां जयन्ती उत्तरस्यामपराजिता, द्वादशानामप्यमूषां वापीनां प्रमाणादिकं सर्व पूर्वाचनगिरिवापीवद् वक्तव्यं, सर्वा अपि षोडशाप्येता वाप्यो दधिमुखशैलानां स्थानभूताः-आधारभूता एव, एतासु वापीषु मध्यभागे दधिमुखशैला व्यवस्थिता इत्यर्थः, तदेवं नन्दीश्वरद्वीपे चतसृष्वपि दिक्षु प्रत्येकमजनगिरिप्रमुखं गिरित्रयोदशकं विद्यते, तथाहि-एकैकस्यां दिशि एकैकोऽजनगिरिश्चत्वारो दधिमुखाः अष्टौ रतिकराः मिलिताश्च त्रयोदश, ते च चतसृष्वपि दिक्षु प्रत्येकमेतावतामद्रीणां सद्भावाश्चतुर्भिर्गुण्यन्ते, जाता द्विपञ्चाशद्रिरयः । साम्प्रतं सर्वोपसंहारमाह-इये'त्यादि, इति-प्रागुक्तप्रकारेण द्विपञ्चाशत्सङ्ख्यगिरीश्वरशिखरेषु स्थितानां वीतरागबिम्बानां पूजाकृते . चतुर्विधो-भवनपतिव्यन्तरज्योतिष्कवैमानिकलक्षणो देवनिकाय:-सुरसमूहः सदा-सर्वकालं समेति, इह च नन्दीश्वरवक्तव्यतायां बहु वक्तव्यं तत्तु नोच्यते ग्रन्थगौरवभयात् , विशेषार्थिना च जीवाभिगमादिशास्त्राणि परिभावनीयानि, यच्चात्र जीवामिगमद्वीपसागरप्रज्ञप्तिसंग्रहिण्यादिभ्यः किञ्चिदन्यथात्वं दृश्यते तन्मतान्तरमवसेयमिति २६९ ॥ ७२ ॥ ७३ ॥ ७४ ।। ७५ ॥ ७६॥ ७७ ॥ ॥ ७८ ॥ ७९ ॥ ८० ॥ ८१ ॥ ८२ ।। ८३ ॥ ८४ ॥ ८५ ॥ ८६ ॥ ८७ ॥ ८८ ॥ ८९ ॥ ९० ॥ ९१ ॥ इदानीं 'लद्धीओ'त्ति सप्तत्यधिकद्विशततमं द्वारमाह
आमोसहि १ विप्पोसहि २ खेलोसहि ३ जल्लओसही ४ चेव । सवोसहि ५ संभिन्ने ६ ओही ७ रिउ ८ विउलमइलद्धी ९॥९२ ॥ चारण १० आसीविस ११ केवलिय १२ गणहारिणो य १३ पुषधरा १४ । अरहंत १५ चक्कवट्टी १६ बलदेवा १७ वासुदेवा १८ य ॥ ९३ ॥ खीरमहुसप्पिआसव १९ कोट्टयबुद्धी २० पयाणुसारी २१ य । तह बीयबुद्धि २२ तेयग २३ आहारग २४ सीयलेसा २५ य ॥ ९४ ॥ वेउविदेहलद्धी २६ अक्खीणमहाणसी २७ पुलाया २८ य । परिणामतववसेणं एमाई हुंति लद्धीओ॥ ९५॥ संफरिसणमामोसो मुत्तपुरीसाण विप्पुसो वावि (वयवा)। अन्ने विडित्ति विट्ठा भासंति पइत्ति पासवणं ॥ ९६ ॥ एए अन्ने य बहू जेसिं सबेवि सुरहिणोऽवयवा । रोगोवसमसमत्था ते हंति तओसहि पत्ता ॥ ९७ ॥ जो सुणइ सबओ मुणइ सबक्सिए उ सबसोएहिं । सुणइ बहुएवि सद्दे भिन्ने संभिन्नसोओ सो॥९८॥ रिउ सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणइ ॥ ९९ ॥ विउलं वत्थुविसेसण नाणं तग्गाहिणी मई विउला । चिंतियमणुसरह घडं पसंगओ पजवसएहिं ।। १५०० ॥ आसी दाढा तग्गय महाविसाऽऽसीविसा दुविहभेया । ते कम्मजाइभेएण गहा चरविहविकप्पा ॥१॥ खीरमहुसप्पिसाओवमाणवयणा तयासवा हुंति । कोहयधनसुनिग्गलसुत्तत्था कोहबुद्धीया ॥२॥ जो सुत्तपएण बहुं सुयमणुधावइ पयाणुसारी सो । जो अत्थपएणऽत्थं अणुसरह स बीयबुद्धी
ओ॥ ३ ॥ अक्खीणमहाणसिया भिक्खं जेणाणियं पुणो तेणं । परिमुत्तं चिय खिजा पहुएहिवि न उण अन्नेहिं ॥ ४॥ भवसिद्धियपुरिसाणं एयाओ हुंति भणियलद्धीओ। भवसिद्धियम
286