________________
न्यतस्त्वष्टौ, कथमिति चेदुच्यते-उद्गच्छंश्चन्द्रमा राहुणा गृहीतः, ततश्चतस्रः पौरुषी रात्रेहन्ति चतस्र आगामिनो दिवसस्य एवमष्टी, द्वादश पुनरेव-प्रभातकाले चन्द्रमाः सग्रहण एवास्तमुपगतः ततश्चतस्रः पौरुषीदिवसस्य हन्ति चतस्र आगामिन्या रात्रेश्चतस्रो द्वितीयस्य दिवसस्य, अथवा औत्पातिकमहणेन सर्वरात्रिकं ग्रहणं सजातं सग्रह एव निमनः, तत्र संदूषितरात्रेश्चतस्रः पौरुषीरन्यच्चाहोरात्रं, अथवा अभ्रच्छन्नतया विशेषपरिज्ञानाभावाच न ज्ञातं कस्यां वेलायां ग्रहणं? प्रभाते च सग्रहो निमजन् दृष्टस्ततः समग्रा रात्रिः परिहृता अन्यच्चाहोरात्रमिति द्वादश । तथा सूर्यो जघन्येन द्वादश पौरुषीहन्ति उत्कर्षतो द्वावष्टौ-षोडश पौरुषीरित्यर्थः, कथमिति चेदुच्यते-सूर्यः सग्रह एवास्तमुपयातः, ततश्चतस्रः पौरुषी रात्रेहन्ति चतस्र आगामिनो दिवसस्य चतस्रस्ततः परस्या रात्ररेवं द्वादश, षोडश पुनरेवं-सूर्य उद्गच्छन् राहुणा गृहीतः सकलं च दिवसमुत्पातवशात्सग्रहः स्थित्वा सग्रह एवास्तं गतः, ततश्चतस्रः पौरुषीर्दिवसस्य हन्ति चतन आगामिन्या रात्रेश्चतस्रोऽपरदिवसस्य ततोऽपि चतस्रोऽपरस्या रात्रेः एवं षोडश पौरुषीहन्ति सग्रह उद्गतः सग्रह एवास्तमितः, तथा चोक्तम् - "एयं उग्गच्छंतगहिए सग्गहनिवुड़े दढव्व" मिति, कथमिति चेदुच्यते-सूराई जेण होतऽहोरत्त'त्ति सूर्यादयो येनाहोरात्राः, यतः सूर्यादिरहोरात्रस्ततो दिनमुक्त सूर्ये स एव दिवसः सैव च रात्रिरस्वाध्यायिकतया परिहियन्ते, चन्द्रे तु तस्यामेव रात्री मुक्ते यावदपरश्चन्द्रो नोदेति तावदस्वाध्याय इति सेव रात्रिरपरं च दिनमित्येवमहोरात्रमस्वाध्यायः, अन्ये पुनराहुः आचीर्णमिदं-चन्द्रो रात्री गृहीतो रात्रावेव मुक्तस्तस्या एव रात्रेः शेषं वर्जनीयं, यस्मादागामिसूर्योदये समाप्तिरहोरात्रस्य जाता, सूर्योऽपि यदि दिवा गृहीतो दिवैव च मुक्तस्ततस्तस्यैव दिवसस्य शेषं रात्रिश्च वर्जनीयेति । गतं सदैवमखाध्यायिकं, इदानीं व्युग्रहजमाह-'वुग्गहे'त्यादि गाथाद्वयं, व्युग्रहे-परस्परविग्रहे दण्डिकादीनां, आदिशब्दात्सेनापत्यादीनां च परस्परं विग्रहेऽस्वाध्यायः, इयमत्र भावना-द्वौ दण्डिको सस्कन्धावारी परस्परं संग्रामं कर्तुकामौ यावन्नोपशाम्यतस्तावत्स्वाध्यायं कर्तुं न कल्पते, एवं द्वयोः सेनाधिपत्योईयो; तथाविधप्रसिद्धिपात्रयोः स्त्रियोः परस्परं व्युग्रहे वर्तमाने अथवा मल्लयुद्धे तथा द्वयोर्मामयोः परस्परं कलहभावे बहवस्तरुणाः परस्परं लोष्टैर्युष्यन्ति यदिवा बाहयुद्धादिभिः स्वतो लोष्टादिमिर्वा परस्परं कलहे देशप्रसिद्धे रजःपर्वणि वा यावन्नोपशमो भवति सेनाधिपादिव्युग्रहस्य तावदस्खाध्यायः, किं कारणमिति चेदुच्यते तत्र वानमन्तराः कौतुकेन स्वस्वपक्षेण समागच्छन्ति ते छलयेयुः, भूयसां च लोकानामप्रीतिर्यथा वयमेवं भीता वर्तामहे कामप्यापदं प्राप्स्यामः एते च श्रमणका निर्दुःखाः सुखं पठन्ति, तथा दण्डिके कालगते 'अणरायए यत्ति यावदन्यो राजा नामिषिक्तो भवति तावत्प्रजानां महान् संक्षोभो भवति तस्मिन् संक्षोभे सति स्वाध्यायो न कल्पते, सभयं-म्लेच्छादिभयाकुलं तस्मिन्नपि स्वाध्यायो न कर्तव्यः, एतेषु सर्वेषु व्युग्रहादिष्वस्वाध्यायविधिमाह-'जञ्चिरनिद्दोच्चऽहोरत्तंति व्युग्रहादिषु यचिरं-यावन्तं कालं 'अनिदोच्चंइत्यनिर्भयमस्वास्थ्यमित्यर्थः, तावन्तं कालमस्वाध्यायः, स्वस्थीभवनानन्तरमप्येकमहोरात्रं परिहत्य स्वाध्यायः कर्तव्यः, उक्तं च निहोचीभूएवि अहोरत्तमेगं परिह रित्ता सज्झाओ कीरई" इति । इह 'संखोभे दंडिए य कालगए' इत्यनेनान्यदपि सूचितमस्ति ततस्तदनिधित्सुराह-'तहिवसे'त्यादि, भोजिके-ग्रामस्वामिनि आदिशब्दाद्वक्ष्यमाणमहत्तरादिपरिग्रहःसप्तानां गृहाणामन्तः-मध्ये कालगते सति तदिवसमहोरात्रं यावदस्वाध्यायः-स्वाध्यायपरिहारः, प्रसङ्गादन्यदपि प्रतिपादयति-'अणाहस्स' इत्यादि, कोऽप्यनाथो हस्तशताभ्यन्तरे मृतः तस्मिन्ननाथे हस्तशताभ्यन्तरे कालगते स्वाध्यायो न क्रियते, तत्रेयं यतना-शय्यातरस्यान्यस्य वा तथाविधस्य श्रावकस्य यथा वार्ता कथ्यते स्वाध्यायान्तरायमस्माकमनाथमृतकेन कृतमस्ति, ततः सुन्दरं भवति यदीदं छर्यते, एवमभ्यर्थितो यदि शय्यातरादिः परिष्ठापयेत्ततः शुभं भवतीति स्वाध्यायः कार्यः, अथवा (च) शय्यातरादिर्न कोऽपि परिष्ठापयितुमिच्छति तदाऽन्यस्यां वसतौ ब्रजन्ति, यद्यन्या वसतिर्नास्ति तदा रात्री सागारिकासंलोके वृषभास्तदनाथमृतकमन्यत्र प्रक्षिपन्ति, अथ तत्कलेवरं श्वशृगालादिमिः समन्ततो विकीर्ण ततः समन्ततो निभालयन्ति यद् दृष्टं तत्सर्वमपि त्यजन्ति इतरस्मिस्तु प्रयत्ने कृतेऽप्यदृष्टे अशठा इतिकृत्वा शुद्धा, स्वाध्यायं कुर्वन्ति, अपि न प्रायश्चित्तमाज इति भावः । संप्रति 'तहिवसभोइयाई' इत्यत्रोक्तमादिशब्द व्याख्यानयति-'मयहरेत्यादि, महत्तरके-प्रामप्रधाने प्रकृते-प्रामाधिकारनियुक्त बहुपाक्षिके-बहुखजने, चकारात् शय्यातरे, अन्यस्मिन् वा प्राकृते मनुष्ये स्ववसत्यपेक्षया सप्तगृहाभ्यन्तरे मृते तदिवसं-एकमहोरात्रमस्वाध्यायः, किं कारणमत आह-निर्दुःखा अमी इत्यप्रीत्या गर्हासंभवात् , ततो न पठन्ति, (शनैर्वा पठन्ति ) यथा न कोऽपि शृणोतीति, महिलारुदितशब्दोऽपि यावत् श्रूयते तावन्न पठन्ति । गतं व्युग्रहज, इदानीं शारीरिकस्यावसरः, तच्च द्विविधं-मानुषं तैरश्चं च, तत्र तैरश्चं त्रिधा-जलजं-मत्स्यादितिर्यग्भवं एवं गवादीनां स्थलजं मयूरादीनां च खजं, पुनर्जलजादिकं प्रत्येकं द्रव्यादिभेदतश्चतुर्विधं, तानेव द्रव्यादीन चतुरो भेदानाह'तिरी'त्यादि, द्रव्ये-द्रव्यतस्तिर्यक्पञ्चेन्द्रियाणां जलजादीनां रुधिरादिद्रव्यमस्वाध्यायिकं, न विकलेन्द्रियाणां, क्षेत्रे-क्षेत्रतः षष्टिहस्ताभ्यन्तरे परिहरणीयं, न परतः, अथ तत्स्थानं तैरश्चेन पौद्लेन-मांसेन समन्ततः काककुक्कुरादिभिर्विक्षिप्तेनाकीर्ण-व्याप्तं तदा यदि स प्रामस्तर्हि तस्मिन् तिसृभिः कुरध्यामिरन्तरिते विकीर्णे पौद्ले स्वाध्यायः क्रियते, अर्थ नगरं तदा तत्र यस्यां राजा सबलवाहनो गच्छति देवयानो रथो वा विविधानि वा वाहनानि गच्छन्ति तथा महत्याऽप्येकया रथ्यया अन्तरिते स्वाध्यायः कार्यः, अथ स प्रामः समस्तोऽपि विकीर्णेन पौदलेनाकीणों विद्यते न तिमृमिः कुरथ्यामिरन्तरितं तत्पौगलमवाप्यते तदा प्रामस्य बहिः स्वाध्यायो विधेयः । गता क्षेत्रतो मार्गणा, सम्प्रति कालतो भावतश्च तामाह-काले'त्यादि, काले-कालतस्तज्जलजादिगतं रुधिरादि संभवकालादारभ्य तिस्रः
283