SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ नारकाणामावासाः क्रमशः सप्तस्वपि पृथिवीषु त्रिंशादयो भवन्ति, तथाहि - प्रथमायां पृथिव्यां त्रिंशच्छतसहस्रा लक्षा इत्यर्थः एवं द्वितीयस्यां पञ्चविंशतिः तृतीयस्यां पञ्चदश चतुर्थ्यां दश पथ्वम्यां त्रीणि षष्ठयां पञ्चभिरूनं शतसहस्रं लक्षमित्यर्थः सप्तम्यां पञ्चैवानुतराः सर्वाधोवर्तिनो नारकावासाः, ते चैवंपूर्वस्यां दिशि कालनामा नरकावासः अपरस्यां दिशि महाकालः दक्षिणस्यां रोरुकः उत्तरस्यां महारोरुकः मध्येऽप्रतिष्ठानकः, मिलिताचैते चतुरशीतिर्लक्षाः १७३ ॥ ७३ ॥ सम्प्रति 'वेयण'न्ति चतुःसप्तत्यधिकशततमं द्वारमाह-सससु स्वेत्तसहावा अन्नोऽनुद्दीरिया य जा छुट्टी । तिसु आइमासु वियणा परमाहम्मियसुरकया य ॥ ७४ ॥ क्षेत्रस्वभावा — क्षेत्रस्वभावसमुद्भूता दुःखवेदना तावदविशेषेण सप्तस्वपि नरकपृथिवीषु भवति, 'अन्नोऽनुद्दीरिया यजा छठ्ठी' त्ति यादच्छब्दोऽयमव्ययत्वेनानेकार्थत्वादिह मर्यादावाची, ततोऽन्योऽन्योदीरिता - नारकैरेव परस्परमुपजनिता वेदना षष्ठीं पृथिवीं यावत्-षष्ठा अर्वाक्पञ्चमीममिव्याप्य भवतीति, इदमुक्तं भवति-अन्योऽन्योदीरिता वेदना द्विधा-प्रहरणकृता शरीरकृता च, तत्र प्रहरणकृता आद्यास्वेव पचसु पृथिवीषु भवति, शरीरकृता तु सामान्येन सप्तस्वपि पृथिवीषु, न चैतदनार्ष, तथा चोक्तं जीवाभिगमोपांगे - "इमीसे भंते! रणप्पा पुढवीए नेरइया जाव एगत्तंपि पहू विउव्वित्तए पुहुतंपि पहू विउव्वित्तए', एगत्तं विउव्वमाणा एगं महं मुग्गररूवं वा मुसुंढीरूवं वा एवं करवत्तअसिस त्तिह लगया मुसलचक्कनारायकुंततोमरसूललगुडजाव भिंडिमालरूवं वा, पुहुत्तं विउब्वेमाणा मुग्गरवाणि वा जाव भिंडमालरुवाणि वा, ताई संखेज्जाई नो असंखेज्जाई संबद्धाइं नो असंबद्धाई सरिसाई नो असरिसाई विउव्वंति, विउव्वित्ता अन्नमन्नस्स कार्य अभिभवमाणा वेयणं उदीरयन्ति, एवं जात्र धूमप्पभाए पुढवीए, छट्ठसत्तमासु णं पुढवीसु नेरइया लोहि कुंथुरुवाई वइरामयतुंडाई गोमय कीडसमाणाई विउब्विचा अन्नमन्नस्स कार्य समतुरंगे माणा २ खाएमाणा २ सयपोराकिमिया इव चालेमाणा चालेमाणा अन्तो अन्तो अणुष्पविसमाणा वेयणमुदीरयन्ति” ति [ अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिका यावद् एकत्वमपि प्रभुर्विकुर्वितुं पृथक्त्वमपि प्रभुर्विकुर्वितुं ?, एकत्वं विकुर्वन्त एकं महत् मुद्गररूपं वा मुषण्ढीरूपं वा एवं करपत्रासिशक्तिहलगदामुशलचक्रनाराचकुन्ततोमरशूल लकुट यावत् मिण्डिमालरूपं वा, पृथक्त्वं विकुर्वन्तो मुद्गररूपाणि वा यावद् मिण्डिमालरूपाणि वा, तानि सङ्खयेयानि नासत्येयानि सम्बद्धानि नासम्बद्धानि सदृशानि नासदृशानि विकुर्वन्ति, विकुर्व्य अन्योऽन्यस्य कायमभिभवन्तो वेदनामुदीरयन्ते, एवं यावद् धूमप्रभायां पृथ्व्यां षष्ठीसप्तम्योः पृथ्व्योर्नैरयिका लौहिककुन्धुरूपाणि वज्रमयतुण्डानि गोमृतककीटसमानानि विकुर्व्य अन्योऽन्यस्य कायं समतुरङ्गायमाणाः २ खादन्तः २ शतपर्वकृमय इव चालयन्तः २ अन्तरन्तरनुप्रविशन्तो वेदनामुदीरयन्ते ] | अत्र पृथक्त्वशब्दो बहुत्ववाची, ततः पृथक्त्वं- प्रभूतानि मुद्गरादीनि भिण्डिमालपर्यन्तानि प्रहरणानि विकुर्वन्तः परिमितानि स्वशरीरसंलग्नानि समानरूपाणि च विकुर्वन्ति, असङ्ख्यातानां स्वशरीरपृथग्भूतानां विसदृशानां च प्रहरणानां विकुर्वणे तथाभवस्वाभाव्येन सामर्थ्याभावात्, ‘समतुरङ्गेमाणा समतुरङ्गेमाणा' इति समतुरङ्गा इवाचरन्तः समतुरङ्गायमाणाः, अश्वा इवान्योऽन्यमारोहन्त इत्यर्थः, शतपर्वकृमय इव- इक्षुक्रमय इव 'चालेमाणा चालेमाणा' शरीरमध्येन सभ्वरन्तः सभ्वरन्त इति ॥ तथा तिसृष्वाद्यासु पृथिवीषु परमाधार्मिकसुरकृताऽपि वेदना भवति, तत्र क्षेत्रस्वभावजा ( प्रन्थानं १३००० ) रत्नप्रभाशर्करा प्रभावालुका प्रभासूष्णा, एतन्नारकाणां हि शीतयोनिकत्वेन केवलं हिमप्रतिमशीतप्रदेशात्मकत्वात् योनिस्थानादन्यत्र च सर्वस्यापि भूम्यादेः खदिराङ्गारेभ्योऽप्यत्यन्तप्रतप्तत्वाद्गाढतर उष्णवेदनानुभवः, एवमन्यास्वपि वाच्यं, पङ्कप्रभायां बहुषूपरितनेषु नरकावासेपूष्णा अधस्तनेषु स्तोकेषु च शीता, धूमप्रभायां बहुषु शीता स्तोकेषूष्णा, षष्ठयां सप्तम्यां च पृथिव्यां केवला शीता वेदनैव, इयं च वेदना सर्वाऽप्यधोऽधोऽनन्तगुणतया तीत्रा तीव्रतरा तीव्रतमा चावसेया, उष्णवेदनायाः शीतवेदनायाश्च स्वरूपं पुनरित्थं प्रदर्शयन्ति प्रवचनवेदिनः - यथा निदाघचरमसमयमध्याह्ने नभोमध्यमधिरूढे प्रौढे चण्डरोचिषि सर्वथाऽपि जलदपटलविकले गगनतले मनागप्यस्फुरति मारुति प्रभूतपित्तकोपामिभूतस्य कृतातपवारनिवारणस्य सर्वतः प्रज्वलज्ज्वलनज्वाला करा लितकलेवरस्य कस्यचित्पुंसः किल वाक्पथातीतसंवेदना यादृगुष्णवेदना प्रादुर्भवति ततोstorवेदनेषु नरकेषु नारकाणामनन्तगुणा, अपिच-यदि नारका उष्णवेदनेभ्यो नरकेभ्य उत्पाट्य धमनीमुखोष्ध्मायमानखादिराङ्गारराशिशय्याशायिनः क्रियन्ते तदा सुधारससेकातिरेकनिर्वाप्यमाणा इवात्यन्तसुखाखादमेदुरमनसो निद्रामपि लभेरन् । तथा पौषे माघे वा निशीथे सर्वथाऽप्यभ्रविभ्रमविरहितेऽपि वियति सर्वतोऽपि वपुःप्रकम्पकृति प्रवाति वाते तुषारशिखरिशिखर कृतस्थितेस्तुहिनकणगणसम्पर्किणो निरग्नेर्निराश्रयस्य निरावरणस्य पुंसो या शीतवेदना ततो भवति शीतवेदनेषु नारकाणामनन्तगुणा, किभ्व-यदि ते नारकाः शीतवेदनेभ्यो नरकेभ्य उत्पाट्य यथोक्तपुरुषस्थाने स्थाप्यन्ते तदा ते प्राप्तात्यन्तनिर्वातस्थाना इव निरुपमसुख सम्पत्तेर्निद्रामप्यासादयेयुरिति । तथा क्षुत्पिपासाकण्डूपारवश्यज्वरदाहभयशोकादिकाऽन्याऽपि नारकाणां वेदना श्रुते श्रूयते, तथाहि -ते नारकाः सर्वदैवाक्षयक्षुदग्निदह्यमानशरीराः सकलजगद्गत सुस्निग्धघृतादिपुद्गलाहारेणापि न तृप्यन्ति, पिपासाऽपि तेषां शश्वत्कण्ठोष्ठतालुजिह्वादिशोषकृन्निखिलपयोधिपयःपानेऽपि नोपशाम्यति, कंडूः पुनः कण्डूयमाना क्षुरिकादिभिरप्यनुच्छेद्या, पारवश्यज्वरदाहभयशोकादयोऽप्यत्रत्येभ्योऽनन्तगुणाः, यदपि च नारकाणामवधिज्ञानं विभङ्गज्ञानं वा तदपि तेषां दुःखकारणं, ते हि दूरत एव तिर्यगूर्द्धमधश्च निरन्तरं दुःखहेतुमापतन्तमालोकयन्ति, आलोक्य च भयेन कम्पमानकायाः सोद्वेगमवतिष्ठन्ते । इयं सर्वाऽपि क्षेत्रस्वभावजा दुःखवेदना, अथ परस्परो 211
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy