________________
सूक्ष्मीभूय स्वामिपादयोरन्तरे प्राविशत् शक्रोऽप्यर्हदादिनिश्रामन्तरेण नासुराणामिहागन्तुं स्वतः शक्तिः सम्भवतीति विचिन्त्यावधिज्ञाना-' वगततद्व्यतिकरस्तीर्थ कराशातनाभयात्वरितमागत्य स्वामिपादयोश्चतुरङ्गुलमप्राप्तं वत्रमुपसंजहार, स्वामिनं च क्षमयित्वा चमरमवोचत्raisesो भगवतः प्रसादान्नास्ति ते भयमिति, एवं चमरमाश्वास्य भूयोऽपि भगवन्तं नत्वा शक्रः स्वस्थानमगमत् चमरोऽप्यमरेन्द्रे गते प्रभुपादद्वयान्तरान्निर्गत्य प्रणम्य च प्रभुं प्रास्तावीत्, यथा- 'श्रीमद्वीरजिनेन्द्र ! भद्रमतुलं तुभ्यं भवत्वन्वहं यस्यानन्यसमानदिव्यमहिमव्यामिश्रया निश्रया । किञ्चित्कर्म मनीषितं तनुमतां व्यातन्वतां सम्मुखीभूताप्याशु विपत्तिरेति निधनं सम्पत्तिरुज्जृम्भते ॥ १ ॥ ' एवं च स्तुत्वा स चमरचश्वापुरीमयासीत् ८ । तथाऽष्टभिरधिकं शतमष्टशतं ते सिद्धा: - निर्वृता अष्टशतसिद्धाः एकसमयेनेति शेषः, तथा चास्मिन् भरतक्षेत्रे अस्यामवसर्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये श्रूयते अष्टोत्तरं शतमेकसमयेन सिद्धं, तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते - " भयवं उसभसामी जयगुरू पुव्वसय सहस्सं वाससहस्सूणयं विहरिऊण केवली अट्ठावयपव्वए सह दुसहिं समणसहस्सेहिं परिनिव्वाणमुवगओ चउद्दसमेणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूणपुत्तसएणं अट्ठहि यनएहिं सह एकसमएणं निव्वुओ, सेसाणवि अणगाराणं दस सहस्साणि अट्ठसयऊणग़ाणि सिद्धाणि तंमि चेव रिक्खे समयंतरेसु बहुसु” इति, इदमप्यनन्तकालजातमित्याश्चर्य, एतदाश्चर्यमुत्कृष्टावगाहनायामेव ज्ञातव्यं, मध्यमावगाहनायां तु अनेकशोऽपि अष्टोत्तरशतं सिध्यतीति नाश्चर्यम् ९ । तथा असंयता - असंयमवन्तः आरम्भपरिग्रहप्रसक्ता अब्रह्मचारिणस्तेषु पूजासत्कारः, सर्वदा हि किल संयता एव पूजार्हाः, अस्यां त्ववसर्पिण्यां विपरीतं जातमित्याश्चर्य, तथा च श्रूयते श्रीसुविधिस्वामिनिर्वाणात्कियत्यपि काले गते ढुंडावसर्पिणीदोषात्साधूनामुच्छेदः समपद्यत, ततः स्थविरश्रावकान् धर्ममार्गानभिज्ञा जना धर्मं पप्रच्छुः, अथात्मपरिज्ञानानुसारतः किञ्चिद्धर्म कथयतां तेषां स्थवि - रभावकाणां ते जनाः श्रावकजनयोग्यां धनवसनाविकां पूजां प्रचक्रिरे, तेऽपि तत्पूजया समुत्पन्नगर्वास्तत्कालं खबुद्ध्या शास्त्राणि समासूत्रय महीमन्दिरशय्या स्वर्ण रूप्य लोहतिळकर्पासगोकन्यागजाश्वादेर्दानानि इहामुत्र च महाफलान्याचख्युः, महागृद्ध्या च वयमेव दानायोचितं पात्रं अपरं सर्वमपात्रमित्याद्युपदेशतः सर्वतो जनं विप्रतारयन्तोऽपि तदानीं तथाविधगुर्वभावाल्लोकानां गुरुतां गताः, एवमस्मिन् क्षेत्रे समन्ततस्तीर्थसमुच्छेदे सजाते श्रीशीतलस्वामितीर्थं यावदसंयतानामपि तेषां धिग्वर्णानां प्रथीयसी पूजा समजायतेति १० । एतानि च दशाप्याश्चर्याण्यनन्तेन कालेन - अनन्तकालादस्यामवसर्पिण्यां संवृत्तानीति । उपलक्षणं चैतान्याश्चर्याणि, अतोऽन्येऽप्येवमादयो भावा अनन्तकालभावित आश्चर्यरूपा द्रष्टव्याः, यदुक्तं पञ्चवस्तुके – 'उवलक्खणं तु एयाईति ।। ८८५ ।। ८८६ ॥ अथ कस्य तीर्थकृतः काले कियन्त्याश्चर्याणि जातानीत्येतदाह - ' सिरी' त्यावि, श्री ऋषभनाथशीतलस्वामिनोस्तीर्थे एकैकमाश्चर्यमभूत्, तत्र श्री ऋषभनाथतीर्थे एकसमयेनाष्टोत्तरशतसिद्धिः, शीतलस्वामितीर्थे च हरिवंशोत्पत्तिः, तथा मल्लिजिननेमिनाथयोरप्येकैकं तत्र स्त्रीतीर्थ मल्लिजिनेनैव प्रवर्तितं, नेमिनाथतीर्थे च कृष्णस्यापरकंकागमनं संवृत्तं, तथा वीरजिनेन्द्रे गर्भहरणोपसर्गच मरोत्पाता भव्यपर्षञ्चन्द्रसूर्यावतरणलक्षणानि पचैवार्याणि क्रमेण जातानि तथा एकमसंयतपूजालक्षणमाश्चर्य प्रायेण - बाहुल्येन सर्वेष्वपि तीर्थकरेषु सम्पन्नमिति ।। ८८७ ॥ एतदेव स्पष्टतरं प्रतिपादयन्नाह — 'रिस हे' गाहा 'इत्थी' गाहा, व्याख्यातार्थ चैतत् नवरं 'पूया अस्संजयाण नवमजिणे' इति यदुक्तं तत्सर्वथा तीर्थोच्छेदजनितासंयत पूजाप्रारम्भमाश्रित्य द्रष्टव्यं सुविधिस्वामिप्रभृतीनां शान्तिनाथपर्यन्तानामष्टानां तीर्थकृतामन्तरेषु सप्तसु तीर्थोच्छेदुजाताया असंयत पूजायाः सद्भावात्, यत्पुनः श्रीऋषभनाथादिकाले मरीचिकपिला दीनामसंयतानां पूजा श्रूयते तत्तीर्थे प्रवर्तमान एवेति, अत एव प्रागुक्तं 'एगं सव्वेसु पाएणेति १३८ ।। ८८८ ।। ८८९ ।। इदानीं 'चउरो भासाउ'त्ति एकोनचत्वारिंशदुत्तरशततमं द्वारमाह
पढमा भासा सच्चा १ बीया उ मुसा विवज्जिया तासिं । सच्चामुसा ३ असचामुसा ४ पुणो तह उत्थीति ॥ ८९० ॥ जणवय १ संमय २ ठवणा ३ नामे ४ रूवे ५ पडुच्चसच्चे य ६ । ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे य १० ॥ ८९१ ॥ कोहे १ माणे २ माया ३ लोभे ४ पेज्जे ५ तव दोसे ६ य । हास ७ भए ८ अक्खाइय ९ उबधाए १० निस्सिया दसहा ॥। ८९२ ॥ उप्पन्न १ विगय २ मीसग ३ जीव ४ अजीवे ५ य जीव अज्जीवे ६ । तह मीसगा अनंता ७ परित ८ अद्धा ९ य अद्धद्धा १० ॥ ८९३ ॥ आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी य ४ पन्नवणी ५ । पचखाणी भासा ६ भासा इच्छाणुलोमा य ७ ॥ ८९४ ॥ अणभिग्गहिया ८ भासा भासा य अभिगम ९ बोडवा । संसयकरणी १० भासा वोयड ११ अधोयडा १२ चेव ॥ ८९५ ॥
भाष्यते इति भाषा, सा चतुर्विधा, तत्र प्रथमा भाषा सत्या, सन्तो— मूलोत्तरगुणास्तेषामेव जगति मुक्तिपदप्रदायकतया परमशोभनत्वात् अथवा सन्तो- विद्यमानास्ते च भगवदुपदिष्टा एव जीवादयः पदार्था अन्येषां कल्पनामात्ररचितसत्ताकतया तत्त्वतोऽसत्त्वात् तेभ्यो हिता स्त्या, सत्याविपरीतस्वरूपा मृषा द्वितीया, उभयस्वभावा सत्यामृषा तासां चतसृणां भाषाणां मध्ये तृतीया, या पुनस्तिसृष्वपि भाषास्वनघिकृता- तल्लक्षणायोगतस्तत्रानन्तर्भाविनी सा आमन्त्रणाज्ञापनादिविषया असत्या मृषा तासां भाषाणां मध्ये चतुर्थीति ।। ८९० ॥
174