SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ ॥ ८११ ॥ असणाईयं कप्पइ कोसदुगन्धंतराउ आगेउं । परओ आणिज्जंतं मग्गाईयंति तमकप्पं ॥ ८१२ ॥ पढमप्पहराणीयं असणाइ जईण कप्पए भोतुं । जाव तिजामे उहुं तमकप्पं कालकंर्त ॥ ८१३ ॥ कुक्कुडिअंडयमाणा कवला बत्तीस साहुआहारे । अहवा निययाहारो कीरइ बत्तीसभाएहिं ॥ ८१४ ॥ होइ पमाणाईयं तदहियकवलाण भोयणे जइणो । एगकवलाइऊणे ऊणोयरिया तवो संति ( तंमि ) ॥ ८१५ ॥ 'जमे 'त्यादिगाथाषटुं यदनुगते रखावतापक्षेत्रे रात्रावित्यर्थः गृहीतमशनादि - अशनं पानं खादिमं स्वादिमं च न तदुपभोक्तुं कल्पते यतीनां यतः क्षेत्रातीतं तदिति समयोक्तिः - सिद्धान्तभणितिरिति ११५ ।। ८११ ॥ इदानीं 'मार्गातीत' मिति षोडशोत्तरशततमं द्वारमाह - 'असे' त्यादि, अशनादिकं क्रोशद्वयाभ्यन्तराद्-गव्यूतद्वयमध्यादानेतुं कल्पते यतीनां परतस्तु - कोशद्वयात्परत आनीयमानं तदशनादि मार्गातीतमितिकृत्वाऽकल्पनीयमेवेति ११६ ।। ८१२ ।। इदानीं 'कालातीत 'मिति सप्तदशोत्तरशततमं द्वारमाह - 'पढे 'त्यादि, दिनप्रथमप्रहरानीतमशनादि कल्पते यतीनां भोक्तुं यावत् त्रयाणां यामानां समाहारस्त्रियामं प्रहरत्रयमित्यर्थः, ऊर्द्ध तु प्रहरत्रयादुपरि चतुर्थप्रहरे तदकल्प्यं - अकल्पनीयं कालातिक्रान्तं, सिद्धान्ते निषिद्धमितिकृत्वेति ॥ ११७ ॥ ८१३ ॥ इदानीं ' प्रमाणातिक्रान्त'मित्यष्टादशोत्तरशततमं द्वारमाह - 'कुक्कु' इत्यादिगाथाद्वयं, कुर्कुटी - पक्षिणी तस्या यदृण्डकं तन्मानाः -- तत्प्रमाणाः कवला द्वात्रिंशत्साधूनां-यतीनामाहारे भवन्ति, प्रकारान्तरेण कवलमानमाह - अथवा साधोरुदरं यावन्मात्रेणाहारेण न न्यूनं नाप्यत्याघ्रातं भवति तावन्मात्री निकाह । रो द्वात्रिंशद्भागैः क्रियते, द्वात्रिंशत्तमश्च भागः कवल इति एतस्माच्च द्वात्रिंशत्कवलमानाधिककवलभोजने यतेः प्रमाणातीतं भोजनं भवति, तथा एतस्माद् द्वात्रिंशत्कवलप्रमाणाहारादेकेन द्वाभ्यां त्रिमिचतुर्भिः पश्वादिभिर्वा कवलैन्यूने सति तस्मिन्नाहारे ऊनोदरिकामिधस्तपोविशेषो भवतीति ११८ ।। ८१४-८१५ ॥ इदानीं 'दुहसेज्जचउकं' ति एकोनविंशत्युत्तरशततमं द्वारमाह— पवयणअसद्दहाणं १ परलाभेहा य २ कामआसंसा ३ । न्हाणाइपत्थणं ४ इय चत्तारिऽवि दुक्खसेज्जाओ ॥ ८१६ ॥ सुहसेज्जाओऽवि चउरो जइणो घम्माणुरायरत्तस्स । विवरीयायरणाओ सुहसेज्जाउन्ति भन्नंति ॥ ८१७ ॥ 'पवेत्यादिगाथाद्वयं, शेरते आस्विति शय्याः दुःखदाः शय्या दुःखशय्याः, ताश्च द्वेषा-द्रव्यतो भावतश्च तत्र द्रव्यतोऽमनोंज्ञखद्वादिरूपाः, भावतो दुःस्थितचित्ततया दुःश्रमणतास्वभावास्ताश्चतस्रः, तत्र प्रवचनस्य - जिनशासनस्याश्रद्धानं - एवमेवेदमिति प्रतिपत्त्यभाव इति प्रथमा दुःखशय्या, तथा परेषां अन्येषां लाभस्य- वस्त्राद्यवाप्तेरीहा - प्रार्थनेति द्वितीया, चः समुच्चये, तथा कामानां - मनोज्ञशब्दरूपादीनामाशंसनं - अभिलषणमिति तृतीया, तथा स्नानादीनां - गात्राभ्यङ्गमर्द्दनप्रक्षालनादीनां प्रार्थनं - आकाङ्क्षणमिति चतुर्थी, आसु हि द्विष्टभावस्वभावासु श्रामण्यशय्यासु स्थितो जीवः कदाचिदपि श्रामण्यस्य न सुखमासादयतीति चतस्रो दुःखशय्याः ११९ ॥ ८१६ ॥ इदानीं विंशत्युत्तरशततमं 'सुहसेज्जचउक्कं 'ति द्वारमाह - 'सुहेत्यादि, 'यतेः' साधोः 'धर्मानुरागर कस्य' धर्मे - जिनधर्मे अनुरागेण—गाढतराभिलाषरूपेण रक्तस्य- आसक्तस्य सुखशय्या एवं चतस्रोऽपि 'विपरीताचरणात् ' पूर्वोक्तप्रवचनाश्रद्धानादिदुःखशय्यावैपरीत्यकरणतः सुखशय्या इति भण्यन्ते, अयं भावः - प्रवचनश्रद्धानं परलाभानीहनं कामादीनामनाशंसनं स्नानादीनामप्रार्थनं यतेः सुखशय्याः, तत्र हि स्थितः परमसन्तोषपीयूषम प्रमानसतया निरन्तरतपोऽनुष्ठानादिक्रियाकलापव्यापृततया च सुखमेव यतिः समासादयतीति १२० ।। ८१७ ॥ इदानीं 'तेरस किरियाठाणाई'ति एकविंशत्युत्तरशततमं द्वारमाह अट्ठा १ गट्ठा २ हिंसा ३ ऽकम्हा ४ दिट्ठी य ५ मोस ६ दिने ७ य । अज्झप्प ८ माण ९ मित्ते १० माया ११ लोभे १२ रियावहिया १३ ।। ८१८ ॥ तस्थावरभूएहिं जो दंड निसरई उ कज्जेणं । आयपरस्स अट्ठा अट्ठादंडं तयं बिंति १ ॥ ८१९ ॥ जो पुण सरडाईयं थावरकायं च वणलयाईयं । मारेह छिंदिऊण व छड्डेई सो अणट्ठाए २ ।। ८२० ॥ अहिमाइवयरियस्स व हिंसिंसुं हिंसई व हिंसेही । जो दंडं आरभई हिंसादंडो हवइ एसो ३ ॥ ८२१ ॥ अन्नट्ठाए निसिरइ कंडाई अन्नमाहणे जो उ । जो व निअंतो सस्सं छिंदिज्जा सालिमाईयं ॥ ८२२ ॥ एस अकम्हादंडो ४ दि विजासओ इमो होइ । जो मित्तममित्तंति काउं घाएज अहवावि ॥ ८२३ ॥ गामाई घाएज व अतेण तेणन्ति वावि घाएजा । दिट्ठिविवज्जासेसो किरियाठाणं तु पंचमयं ५ ।। ८२४ ॥ अन्तनायगाईण वावि अट्ठाइ जो मुसं वयइ । सो मोसप्पचइओ दंडो छट्टो हवइ एसो ६ ।। ८२५ ॥ एमेव आयनायगअट्ठा जो गिन्हई अदिन्नं तु । एसो अदिन्नवित्ती ७ अज्झत्थीओ इमो होइ ॥ ८२६ ॥ नवि कोइ य किंचि भणइ तहवि हु हियएण दुम्मणो किंचि । तस्सऽज्झत्थी सीसह चउरो ठाणा इमे तस्स ।। ८२७ ॥ कोहो माणो माया लोभो अज्झत्थिकिरियए चेव ८ । जो पुण 158
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy