________________
जायते आर्तध्यानं शरीरिणश्चरमसमये ॥ १॥] इत्यादि, कारणत्वभावना चामीषां प्राग्वत् ९५ ॥ ७३८ ॥ इदानीं 'पिंडे पाणे य एसणासत्तगंति षण्णवतं द्वारमाह
संसह १ मसंसट्ठा २ उद्धड ३ तह अप्पलेविया ४ चेव । उग्गहिया ५ परगहिया ६ उज्झियधम्मा ७ य सत्तमिया ॥ ७३९॥ तंमि य संसट्टा हत्थमत्तएहिं इमा पढम भिक्खा १।तविवरीया बीया भिक्खा गिण्हंतयस्स भवे २॥ ७४० ॥ नियजोएणं भोयणजायं उद्धरियमुद्धडा भिक्खा ३॥ सा अप्पलेविया जा निल्लेवा वल्लचणगाई ४॥७४१ ॥ भोयणकाले निहिया सरावपमुहेसु होइ उग्गहिया ५। पग्गहिया जं दाउं भुत्तुं व करेण असणाई ६॥७४२ ॥ भोयणजायं जं छडुणारिहं नेहयंति दुपयाई । अद्धच्चत्तं वा सा उज्झियधम्मा भवे भिक्खा ॥ ७४३ ॥
पाणेसणावि एवं नवरि चउत्थीऍ होइ नाणत्तं । सोवीरायामाइं जमलेवाडत्ति समयुत्ती ॥७४४॥ 'संसद्धे'त्यादिगाथाषटुं, पिण्ड:-सिद्धान्तभाषया भक्तमुच्यते तस्य एषणा-ग्रहणप्रकारः पिण्डैषणा, सा च सप्तविधा, तद्यथा-असंसृष्टा १ संसृष्टा २ उद्धृता ३ तथा अल्पलेपिका ४ चैव अवगृहीता ५ प्रगृहीता ६ उज्झितधर्मा च सप्तमिका, अत्र च उत्तरोत्तरस्या अतिविशुद्धत्वात् इत्थं क्रमनिर्देशो द्रष्टव्यः, यत्पुनः सूत्रे संसृष्टायाः पूर्वमुपादानं तद्गाथाभङ्गभयादिति, इह च द्वये साधवो-गच्छान्तर्गता गच्छनिर्गताच, तत्र गच्छान्तर्गतानामेताः सप्तापि ग्रहीतुमनुज्ञाताः, गच्छनिर्गतानां पुनराद्ययोर्द्वयोरग्रहः पञ्चस्खभिग्रहः ।। ७३९॥ अथैताः स्वयमेव व्याचष्टे'तंमी'त्यादिगाथाचतुष्टयम् , तमि'त्ति प्राकृतत्वात्तासु भिक्षासु मध्ये संसृष्टा हस्तमात्रकाभ्यां भवति, कोऽर्थः १-संसृष्टेन-तक्रतीमनादिना खरण्टितेन हस्तेन संसृष्टेनैव च मात्रकेण-करोटिकादिना गृहृतः साधोः संसृष्टा नाम मिक्षा भवति, इयं च द्वितीयाऽपि मूलगाथोक्तकमापेक्षया प्रथमा, अत्र च संसृष्टासंसृष्टसावशेषनिरवशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेषं द्रव्यमित्येष गच्छनिर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति, तथा तद्विपरीता-संसृष्टाख्यभिक्षाविपरीता द्वितीया असंसृष्टा नाम भिक्षा भवति, असंसृष्टेन हस्तेन असंसृष्टेन च मात्रकेण मिक्षा गृहृतः साधोरसंसृष्टेत्यर्थः, अत्र चासंसृष्टो हस्तोऽसंसृष्टं च मात्रं द्रव्यं पुनः सावशेषं वा स्यान्निरवशेषं वा, तत्र निरवशेषे पश्चात्कर्मदोषः तथापि गच्छस्य बालाद्याकुलत्वात्तनिषेधो नास्ति अत एव सूत्रे तच्चिन्ता न कृता ।। तथा निजयोगेन-आत्मव्यापारेणैव भोजनजातं मूलस्थाल्यादेः सकाशादन्यत्र स्थाल्यादावुद्धृतं, तच्च साधोइत उद्धृता तृतीया भिक्षा भवति, तथा सा अल्पलेपिका नाम चतुर्थी मिक्षा या निर्लेपा वल्लचणकादिः, आदिशब्दात्पृथुकादिपरिग्रहः, अत्र चाल्पशब्दोऽभाववाचकः, ततोऽल्पलेपा निर्लेपा नीरसेत्यर्थः, यद्वाऽल्पः-स्तोको लेपः पश्चाकर्मादिजनितः कर्मसंबन्धो वा यस्यां सा अल्पलेपा, उक्तं च आचाराने-'अस्सि खलु पडिग्गहियंसि अप्पे पच्छाकम्मे अप्पे पज्जवजाए'त्ति अत्र च-पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि तथा अल्पं पर्यायजातं, अल्पं तुषादि त्यजनीयमित्यर्थः, तथा भोजनसमये निहितं-निक्षिप्तं शरावप्रमुखेषु-शरावकांस्यपात्रादिषु भाजनेषु भोक्तुकामस्य ढौकितं यद्भोजनजातं कूरादिकं तद् गृहतो यतेरवगृहीता पञ्चमी भिक्षा भवति, अत्र च दात्रा कदाचित्पूर्वमेव उदकेन हस्तो मात्रकं वा धौतं स्यात्ततो यदि परिणतः पाण्यादिषूदकलेपस्तदा कल्पते अन्यथा तु निषेधः, तथा भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन परिवेषकेण पिठरकादेरुद्धृत्य चट्टकादिना उत्क्षिप्तं परेण च न गृहीतं प्रव्रजिताय दापितं यद्वा भोका स्वयं भोक्तुं करेण-निजहस्तेन यद् गृहीतमशनादि तद् गृहतो यतेः प्रगृहीता नाम षष्ठी भिक्षा भवति, तथा योजनजातममनोज्ञत्वादिना कारणेन परित्यागाई अन्ये च द्विपदादयो ब्राह्मणश्रमणातिथिकार्पटिकादयो न ईहन्ते-नावकाङ्कन्ति तद् अर्धत्यक्तं वा गृहतः साधोरुज्झितधर्मा नाम सप्तमी भिक्षा भवेदिति, आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गी भण. नीया, नवरं चतुर्थ्यां नानात्वं, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ ७४०॥ ७४१ ॥ ७४२ ॥ ७४३ ॥ अथ पानेषणासप्तकमाह'पाणेसणा' गाहा, पानैषणाऽप्येवमेव संसृष्टादिका सप्तविधा ज्ञेया, नवरं-केवलं चतुर्थ्यामल्पलेपायां भवति नानात्वं-भेदः, यद्यस्मात् सौवीरायामादि-काजिकावस्रावणादि आदिशब्दादुष्णोदकतण्डुलोदकादि चालेपकृदिति 'समयोक्तिः' सिद्धान्तभणितिः, शेषं तु ईक्षुरसद्राक्षापानकाम्लिकापानकादि लेपकृत् , तद्धि पीयमानं यतेः कर्मलेपं करोति ९६ ॥ ७४४ ॥ इदानीं 'भिक्खायरियावीहीणमट्टगं'ति सप्तनवतं द्वारमाह
उज्जं१ गंतुं पञ्चागइया २ गोमुत्तिया ३ पयंगविही ४। पेडा य ५ अद्धपेडा ६ अभितर ७ बाहिसंबुक्का ८॥७४५ ॥ ठाणा उज्जुगईए भिक्खंतो जाइ वलइ अनडंतो। पढमाए १ बीयाए पविसिय निस्सरइ भिक्खंतो २॥ ७४६ ॥ वामाओ दाहिणगिहे भिक्खिज्जइ दाहिणाओ वामंमि । जीए सा गोमुत्ती ३ अडवियड्डा पयंगविही ४ ॥७४७ ॥ चउदिसि सेणीभमणे मज्झे मुक्कंमि
डा ५। दिसिदुगसंबद्धस्सेणिभिक्खणे अद्धपेडत्ति ६॥७४८॥ अभितरसंबुक्का जीए भमिरो बहिं विणिस्सरह ७ । बहिसंवुक्का भन्नइ एयं विवरीयभिक्खाए ८॥७४९॥ 'उज़'मित्यादिगाथापंचकं, मिक्षाचर्याविषया वीथयो-मार्गविशेषा मिक्षाचर्यावीथयः, ताश्च अष्टौ यथा-ऋज्वी १ गत्वा प्रत्यागतिः २
144
भन्नए पेडा ५