________________
विशेषणादनुक्तेऽपि विशेष्ये प्रतिपत्तिः, यथा-"ध्यानकतानमनसो विगतप्रचाराः, पश्यन्ति यं कमपि निर्मलमद्वितीयम्" इत्यत्र ध्यानैकतानमनसो विगतप्रचारा इति प्रौढविशेषणसामाद्योगिन इति विशेष्यस्यानुक्तस्यापि प्रतिपत्तिस्तथाऽत्रापि नामेयदेवस्येति, 'वोच्छं' वक्ष्ये 'भव्यानां' निर्मलनिजगुणनिकरमाहात्म्येन सिद्धिगमनयोग्यानां प्राणिनां ज्ञाननिमित्तं प्रवचनस्य-द्वादशात्यादिशासनस्य सारोशारं-प्रधानकतिपयपदार्थोद्धारं 'गुरूपदेशाद' गुरुकथनात् 'समासेन' संक्षेपेणेति गाथापदार्थः । तत्र 'नमिऊण जुगाइजिणं' इत्यनेन युगादिदेवस्य नमस्कारकरणेन विवक्षितशास्त्रादौ सकलकल्याणमूलं भावमङ्गलं 'वक्ष्ये प्रवचनसारोद्धार'मित्यनेनाभिधेयं 'भव्यानां ज्ञाननिमित्त'मित्यनेन प्रयोजनं च प्रत्यपादि, तच्च द्वेधा-प्रकरणकर्तुः श्रोतुश्च, एकैकमपि द्विविधं-अनन्तरं परम्परं च, तत्र प्रकरणकर्तुरनन्तरं प्रयोजनं प्रवचनसारभूतकतिपयपदार्थान् प्रतिपादयतः सत्त्वानुग्रहः, परम्परं तु परमपदावाप्तिः, भव्यसत्त्वानुग्रहप्रवृत्तो हि निरवकरसुखनिकरप्राज्यसाम्राज्यनिसर्गरमणीयरमणीवर्गवैभवोद्भासितस्वर्गप्राप्त्यादिपरम्परया परमपदमवश्यमवाप्नोत्येव, यत उक्तम्-"सर्वज्ञोक्तोपदेशेन, यः सत्त्वानामनुप्रहम् । करोति दुःखतप्तानां, स प्राप्नोत्यचिराच्छिवम् ॥ १॥” श्रोतृणां पुनरनन्तरप्रयोजनं यथावत्प्रवचनसारभूतकतिपयपदा. र्थपरिज्ञानं, परम्परप्रयोजनं तु तेषामपि परमपदप्राप्तिरेव, तथाहि-ते यथावद्विज्ञातप्रवचनसारभूतकतिपयपदार्थाः प्रकृयसारात्संसाराद्विरज्यन्ते ततः परमपदावाप्तये निःसपत्नं प्रयत्नमाचरन्ति ततो निखिलश्रेयस्कारकं निःश्रेयसमासादयन्ति, यत उक्तम्-"सम्यग्भावपरिज्ञानाद्विरक्ता भवतो जनाः। क्रियाऽऽसक्ता सविनेन, गच्छन्ति परमां गतिम् ॥ १॥” इति, सम्बन्धस्तु द्विधा-उपायोपेयलक्षणो गुरुपर्वक्रमलक्षणश्च, तत्र प्रथमस्तर्कानुसारिणः प्रति, स चायं-वचनरूपापन्नं शास्त्रमिदमुपायः, उपेयं सम्यगेतच्छास्त्रार्थपरिज्ञानं मुक्तिपदं वा, तस्याप्यतः पारम्पर्येण प्राप्तेः, श्रद्धानुसारिणस्तु प्रति गुरुपर्वक्रमलक्षणसम्बन्धः, तत्कमश्चाय-प्रथमं हि घनाघनघनपटल इवातिप्रसारिणि पटुतरोज्जम्भमाणखरकिरणनिकरप्रकाशसङ्काशकमनीयकेवलालोकन्यकारिणि घनघातिकर्मनिचये प्रचण्डप्रभजनप्रसारिणेवाध्यामलशुभध्यानेन प्रलयमापादिते निःशेषयथावस्थितजीवाजीवादिपदार्थसार्थावभासिनि निःसपने समुत्पन्ने केवलज्ञानालोके नाकिनगरगुरुतरविशुद्धसमृद्धिसम्भारतिरस्कारकारिण्यामपापायां नगर्या सकललोकलोचनामन्दामन्दोत्सवकारिनिरुपमप्राकारत्रयोद्भासितसमवसरण. मध्यभागव्यवस्थापितविचित्ररत्नखण्डखचितसिंहासनोपविष्टेन विशिष्टमहाप्रातिहार्यादिपरमार्हन्त्यसमृद्धिमहिना भगवता श्रीमन्महावीरेण सुरासुरकिन्नरनरेश्वरनिकरपरिकरितायां परिषदि प्रवचनसारभूताः सर्वेऽपि पदार्था अर्थतो निवेदिताः तदनु प्रवचनाधिपतिना सुधर्मस्वामिना त एव सूत्रतो रचिताः 'अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं' इत्यार्षवचनात् तदनु जम्बूस्वामिप्रभवशग्यम्भवयशोभद्रसम्भूतविजयभद्रबाहुस्थूलभद्रमहागिरिसुहस्तिउमास्वातिश्यामार्यप्रभृतिभिः सूरिभिःस्वकीयस्वकीयसूत्रेषु विस्तृततमविस्तृततरविस्तृतेषूपनिबध्यमाना भव्यजनेभ्यश्च प्रकाश्यमाना एतावती भूमिकां यावदानीताः, ततस्तेभ्योऽपि सूत्रेभ्य ऐदंयुगीनमन्दमेधसामवबोधाय सलिप्यास्मिन् प्रकरणे 'अन्योपकारकरणं धर्माय महीयसे च भवती'त्यधिगतपरमार्थानामविवादो वादिनामत्रेति परोपकाररसिकान्तःकरणप्राकालिकश्रुतधरामिहितश्रुतमनुस्मरता मया समुद्भियन्ते इत्येवं परम्परया सर्वविन्मूलमिदं प्रकरणमर्थमाश्रित्य न पुनमैया नूतनं किश्चिदत्र सूध्यते इत्यवदातबुद्धीनां भव्यानामिदमुपादेयं भवतीति ॥ इदानी प्रवचनसारभूता ये विवक्षिता पदार्थास्तेषां षट्सप्तत्यधिकद्विशतीसङ्ख्यानि द्वाराणि (२७६) गाथाचतुःषष्ट्या सुखावबोधार्थमुपदिशन्नाह
चिइवंदण बंदणयं पडिक्कमणं पचाणमुस्सग्गो। चउवीससमहियसयं गिहिपडिकमाइयाराणं ॥२॥ भरहमि भूयसंपइभविस्सतित्थंकराण नामाई। एरवयंमिवि ताई जिणाण संपइभविस्साणं ॥३॥ उसहाइजिणिदाणं आइमगणहरपवित्तिणीनामा । अरिहंतवणठाणा जिणजणणीजणयनाम गई ॥४॥ उचिट्ठजहण्णेहिं संखा विहरंततित्थनाहाणं । जम्मसमए वि संखा उकि?जहणिया तेर्सि ॥५॥ जिणगणहर मुर्णि समैणी वेउर्विय वौइ अवहि केवलिणो । मणेनाणि चउदसैपुब्वि मैड मैडीण संखा उ॥६॥ जिणजक्खा देवीओ तर्णमाणं लंळणाणि वना य। वयपरिवारो सव्वाईयं च सिवगमणैपरिवारो ॥७॥ निव्वाणगमणठाणं जिणंतरॉइं च तित्थवुच्छेओ। दसै चुलसी वा आँसायणाउ तह पौडिहेराई ॥८॥ चउतीसाइसँयाणं दोसा अट्ठारसारिहउक्कं । निर्खेमणे नाणमि य निव्वाणमि य जिणाणे तवो ॥९॥ भाविजिणेसरंजीवा संखा उड्डाहतिरियसिद्धाणं । तह एकसमयसिद्धाण ते य पनरेसभेएहिं ॥१०॥ अवगाहणाय सिद्धा उकिट्ठजहन्नमज्झिमाए य । गिहिलिंगअन्नलिंगस्सलिंगसिद्धाणे संखा उ ॥११॥ बत्तीसाई सिझंति अविरयं जाव अट्टहीयसयं । अट्ठसमएहिं एक्कक्कूणं जावेकर्समयंतं ॥ १२॥ थीवेए पुंवेए नपुंसए सिझेमाणपरिसंखा । सिद्धाणं संठाणं अवठिठाणं च सिद्धाणं ॥ १३ ॥ अवगाहणा य तेसिं उक्कोसों मज्झिौं जहन्नों य । नामाइ चउण्हपि हु सासयजिणाहपडिमाणं ॥ १४ ॥ उवगरणाणं संखा जिणांण थविराण साहणीणं च। जिणकप्पियाण संखा उकिट्टा एगवसहीए
2