________________
११०४
त्रिविधं सत्यम् कारणानि तपःकर्माणि प्रतिपद्यन्ते, किमङ्ग पुनरहं आभ्युपगमिक-औपक्रमिकी वेदनां न सम्यक् सहामि क्षमे तितिक्षामि अध्यासयामि, मम च आभ्युपगमिकौपक्रमिकी वेदनां सम्यक् असहतः यावत् अनध्यासयतः किं मन्ये क्रियते ? एकान्तशो मे पापं कर्म क्रियते, मम च आभ्युपगमिक यावत् सम्यक् सहतः यावत् अध्यासयतः किं मन्ये क्रियते ? एकान्तशो मे निर्जरा क्रियते, चतुर्थी सुखशय्या ॥४॥)
'हट्ठत्ति शोकाभावेन हृष्टा इव हृष्टाः, अरोगा ज्वरादिवज्जिताः, बलिकाः प्राणवन्तः, कल्यशरीराः पटुशरीराः, अन्यतराणि अशनादीनां मध्ये एकतराणि, उदाराणि आशंसादोषरहिततयोदारचित्तयुक्तानि, कल्याणानि मङ्गलस्वरूपत्वात्, विपुलानि बहुदिनत्वात्, प्रयतानि प्रकृष्टसंयमयुक्तत्वात्, प्रगृहीतानि आदरप्रतिपन्नत्वात्, महानुभागानि अचिन्त्यशक्तियुक्तत्वात् ऋद्धिविशेषकारणत्वात् (द्वा), कर्मक्षयकारणानि मोक्षसाधनत्वात्, तपःकर्माणि तपःक्रिया, प्रतिपद्यन्ते आश्रयन्ति, 'किमङ्ग पुण'त्ति किं प्रश्ने अङ्गेत्यामन्त्रणेऽलङ्कारे, सा पुनरिति पूर्वोक्तार्थवैलक्षण्यदर्शने, शिरोलोचब्रह्मचर्यादीनामभ्युपगमे भवाभ्युपगमिकी उपक्रम्यतेऽनेनायुरित्युपक्रमो ज्वरातीसारादिस्तत्र भवा या सौपक्रमिकी तां वेदनां, सहामि तदुत्पत्तावविमुखतया, क्षमे विकोपतया, तितिक्षामि अदीनतया, अध्यासयामि सौष्ठवातिरेकेण तत्रैव वेदनायामवस्थानं करोमीत्यर्थः । मन्ये निपातो वितर्कार्थः, क्रियते भवतीत्यर्थः ।'
गुरुस्त्रिविधं सत्यं जानाति, तद्यथा - मनःसत्यं वाक्सत्यं कायसत्यञ्च । त्रिविधसत्यस्वरूपमेवं प्रोक्तं पाक्षिकसूत्रवृत्तौ -
'मनसः सत्यं मनःसत्यं, मनःसंयम इत्यर्थः । स चाकुशलमनोनिरोधकुशलमनःप्रवर्तनलक्षणस्तं वेद्मि सम्यगासेवातो जानामीति मनःसत्यविद्वान्, तथा वाक्सत्येन कुशलाकुशलवचनोदीरणनिरोधलक्षणेन वाक्संयमेन करणभूतेन, तथा करणसत्येन क्रियातथ्येन कायसंयमेनेत्यर्थः स च सति कार्ये उपयोगतो गमनागमनादिविधानं तदभावे तु संलीनकरचरणाद्यवयवस्यावस्थानं यदिति ।'
गुरुः षड्भाषा जानाति । तासां स्वरूपमुक्तं चतुर्थषट्त्रिशिकावृत्तौ । गुरुर्ध्यानद्विकं जानाति । ध्यानं द्विविधं प्रशस्ताप्रशस्तभेदात् । प्रशस्तं ध्यानं धर्मध्यानशुक्लध्यानरूपम् । अप्रशस्तं ध्यानमार्त्तध्यानरौद्रध्यानरूपम् । आर्तरौद्रधर्मशुक्लध्यानानां सप्रभेदानां स्वरूपं प्रथमषट्विशिकावृत्तौ वर्णितम् । गुरुः सप्तविधविभङ्गज्ञानस्वरूपं जानाति । पाक्षिसूत्रवृत्तौ तदेवमुक्तम् -